________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 731 // आर्द्र कस्योत्तरः तथा त्यक्त्वा अमतिं विमतिं त्रायी भगवान् सर्वस्य परित्राणशीलो, विमतिपरित्यागेन चैवंभूत एव भवतीति भावः, तायी वा श्रुतस्कन्धः२ मोक्षंप्रति, अयवयमयपयचयतयणय गतावित्यस्य रूपम्, स एव- भगवानेवमाह-यथा विमतिपरित्यागेन मोक्षगमनशीलो षष्ठमध्ययन आईक्रीयम्, भवतीत्येतावताच संदर्भेण ब्रह्मणो- मोक्षस्य व्रतं ब्रह्मव्रतमित्येतदुक्तम्, तस्मिंश्चोक्ते तदर्थे चानुष्ठाने क्रियमाणे तस्योदयस्यार्थी-2 सूत्रम् 19-25 लाभार्थी श्रमण इति ब्रवीम्यहमिति // 20 // 755 // न चैवंभूता वणिज इत्येतदाककुमारो दर्शयितुमाह-ते हि वणिजश्चतुर्दश- (754-760) प्रकारमपि भूतग्रामंजन्तुसमूहं समारभन्ते तदुपमर्दिकाः क्रियाः प्रवर्त्तयन्ति क्रयविक्रयार्थं शकटयानवाहनोष्ट्रमण्डलिकादिभिरनुष्ठानैरिति, तथा परिग्रहं द्विपदचतुष्पदधनधान्यादिकं ममीकुर्वन्ति ममेदमित्येवं व्यवस्थापयन्ति, ते हि वणिजो ज्ञातिभिः स्वजनैः सह यः संयोगस्तं अविप्रहाय अपरित्यज्य आयस्य लाभस्य हेतोः निमित्तादपरेण सार्द्ध सङ्गसम्बन्धं कुर्वन्ति। भगवांस्तु षड्जीवरक्षापरोऽपरिग्रहस्त्यक्तस्वजनपक्षः सर्वत्राप्रतिबद्धो धर्माऽऽयमन्वेषयन् गत्वापि धर्मदेशनां विधत्ते, अतो भगवतो वणिग्भिः सार्द्ध न सर्वसाधर्म्यमस्तीति // 21 // 756 // पुनरपि वणिजां दोषमुद्भावयन्नाह- वित्तेसिणो इत्यादि, वित्तं- द्रव्यं / तदन्वेष्टुं शीलं येषां ते वित्तैषिणः, तथा मैथुने स्त्रीसंपर्क संप्रगाढा अध्युपपन्नाः, तथा ते भोजनार्थं आहारार्थं वणिज इतश्चोतश्च व्रजन्ति वदन्ति वा। तांस्तु वणिजो वयमेवं ब्रूमो- यथैते कामेष्वध्युपपन्ना- गृद्धाः, अनार्यकर्मकारित्वादनार्या रसेषु चसातागौरवादिषु गृद्धा- मूर्छिताः, न त्वेवंभूता भगवन्तोऽर्हन्तः, कथं तेषां तैः सह साधर्म्यमिति?, दूरत एव निरस्तैषा कथेति॥ 22 // 757 // किंचान्यत्- आरम्भं सावधानुष्ठानं च तथा परिग्रहं च अव्युत्सृज्य अपरित्यज्य तस्मिन्नेवारम्भे क्रय-8 विक्रयपचनपाचनादिके तथा परिग्रहे च-धनधान्यहिरण्यसुवर्णद्विपदचतुष्पदादिके निश्चयेन श्रिता-अवबद्धा नि:श्रिता वणिजो 0 अय वय मय तय णय गता (प्र०)। 0 वानेवाह (मु०)। // 731 //