________________ श्रीसूत्रकृताङ्ग निक्षेपं दर्शयितुं नियुक्तिकृदाह-अध्ययनस्य नामादिकः षोढा निक्षेपः, सचान्यत्र न्यक्षेण प्रतिपादित इति नेह प्रतन्यते, अत्र श्रुतस्कन्धः२ नियुक्तिच श्रुतस्कन्धे सप्त महाध्ययनानि, तेषामाद्यमध्ययनं पौण्डरीकाख्यम्, तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि प्ररूप प्रथमश्रीशीला० मध्ययनं वृत्तियुतम् णीयानि, तत्रोपक्रम आनुपूर्वीनामप्रमाणवक्तव्यतार्थाधिकारसमवतारभेदात्योढा, तत्र पूर्वानुपूर्त्या प्रथममिदं पश्चानुपूर्त्या तु पौण्डरीकम्, श्रुतस्कन्धः२ सप्तममनानुपूर्त्यां तु सप्तगच्छगतायाः श्रेण्याँ अन्योऽन्याभ्यासेन द्विरूपोने सति पञ्चाशच्छतान्यष्टत्रिंशदधिकानि भवन्ति, नियुक्तिः // 492 // 142-157 नाम्नितुषण्णाम्नि, तत्रापि क्षायोपशमिके भावे, सर्वस्यापिच श्रुतस्य क्षायोपशमिकत्वात्, प्रमाणचिन्तायांजीवगुणप्रमाणे, पुण्डरीकादिवक्तव्यतायांसामान्येन सर्वेष्वध्ययनेषुस्वसमयवक्तव्यता, अर्थाधिकारः पौण्डरीकोपमयास्वसमयगुणव्यवस्थापनम्, समवतारे निक्षेपाः तु यत्र यत्र समवतरति तत्र तत्र लेशतः समवतारितमेवेति // 143-144 // उपक्रमानन्तरं निक्षेपः, स च नामनिष्पन्ने निक्षेपे पौण्डरीकमित्यस्याध्ययनस्य नाम, तन्निक्षेपार्थं नियुक्तिकृदाह- 'णामंठवणे'त्यादि, पौण्डरीकस्य नामस्थापनाद्रव्यक्षेत्रकालगणनासंस्थानभावात्मकोऽष्टधा निक्षेपः, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यपौण्डरीकमभिधित्सुराह-जो जीवे इत्यादि, यः कश्चित्प्राणधारणलक्षणो जीवो भविष्यतीति भव्यः, तदेव दर्शयति- उत्पतितुकामः समुत्पित्सुस्तथाविधकर्मोदयात् पौण्डरीकेषु श्वेतपद्येषु वनस्पतिकायविशेषेष्वनन्तरभवे भावी स द्रव्यपौण्डरीकः, खलुशब्दो वाक्यालङ्कारे, भावपौण्डरीकं त्वागमतः पौण्डरीकपदार्थज्ञस्तत्र चोपयुक्त इति ॥१४५॥एतदेव द्रव्यपौण्डरीकं विशेषतरं दर्शयितुमाह-एगभविए य इत्यादि, एकेन भवेन / गतेनानन्तरभव एव पौण्डरीकेषूत्पत्स्यतेस एकभविकः, तथा तदासन्नतरः पौण्डरीकेषु बद्धायुष्कस्ततोऽप्यासन्नतमोऽभिमुखनामगोत्रोऽनन्तरसमयेषु यः पौण्डरीकेषूत्पद्यते, एते अनन्तरोक्ता त्रयोऽप्यादेशविशेषा द्रव्यपौण्डरीकेऽवगन्तव्या इति, भूतस्य भाविनो। ®भ्यासः, अन्योऽन्याभ्यासेन तु द्विरूपोने (प्र०)। ®'नाम' मित्यादि (मु०)। 0 जो' इत्यादि (मु०)। 0 एगे' त्यादि (मु०)। // 492 //