________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 717 // वाद: रजनाचरितं?, ततोऽसाववोचद्-यथा तव पिता प्रव्रजितुकामः त्वंचाद्यापि शिशुरसमर्थोऽर्थार्जने ततोऽहमनाथास्त्रीजनोचिते- श्रुतस्कन्धः२ नानिन्द्येन विधिनाऽऽत्मानं भवन्तं च किल पालयिष्यामीत्येतदालोच्येदमारब्धमिति / तेनापि बालकेनोत्पन्नप्रतिमया षष्ठमध्ययन आईक्रीयम्, तत्कर्त्तितसूत्रेणैव क्वायं मद्बद्धो यास्यतीति मन्मनभाषिणोपविष्ट एवासौ पिता परिवेष्टितः, तेनापि चिन्तितं- यावन्तोऽमी सूत्रम् 1-2 बालककृतवेष्टनतन्तवस्तावन्त्येव वर्षाणि मया गृहे स्थातव्यमिति, निरूपिताश्च तन्तवो यावद् द्वादश तावन्त्येव वर्षाण्यसौ। (736-737) गोशालकेन गृहवासे व्यवस्थितः, पूर्णेषु च द्वादशसु संवत्सरेषु गृहान्निर्गतःप्रव्रजितश्चेति / ततोऽसौ सूत्रार्थनिष्पन्न एकाकिविहारेण वि-8 सहाईकस्य हरन् राजगृहाभिमुखं प्रस्थितः, तदन्तराले च तद्रक्षणार्थं यानि प्राक् पित्रा निरूपितानि पञ्च राजपुत्रशतानि तस्मिन्नश्वेन नष्टे राजभयाद्वैलक्ष्याच्च न राजान्तिकं जग्मुः, तत्राटवीदुर्गे चौर्येण वृत्तिं कल्पितवन्तः, तैश्चासौ दृष्टः प्रत्यभिज्ञातश्च, ते च तेन पृष्टा:-किमिति भवद्भिरेवंभूतं कर्माश्रितं?, तैश्च सर्व राजभयादिकं कथितम्, आर्द्रककुमारवचनाच संबुद्धाः प्रव्रजिताश्च / तथा राजगृहनगरप्रवेशे गोशालको हस्तितापसाः ब्राह्मणाश्च वादे पराजिताः। तथाऽऽर्द्रककुमारदर्शनादेव हस्ती बन्धनाद्विमुक्तः, ते च हस्तितापसादय आर्द्रककुमारधर्मकथाक्षिप्ता जिनवीरसमवसरणे निष्क्रान्ताः। राज्ञा च विदितवृत्तान्तेन महाकुतूहलापूरितहृदयेन पृष्टो- भगवन्! कथं त्वदर्शनतो हस्ती निरर्गलः संवृत्त इति?, महान् भगवतः प्रभाव इत्येवमभिहितः सन्नार्द्रककुमारोऽब्रवीत् नवमगाथयोत्तरं- न दुष्करमेतद्यन्नरपाशैर्बद्धमत्तवारणस्य विमोचनं वने राजन्! एतत्तु मे प्रतिभाति दुष्करं यच्च तत्रावलितेन / तन्तुना बद्धस्य मम प्रतिमोचनमिति।स्नेहतन्तवो हि जन्तूनां दुरुच्छेदा भवन्तीति भावः ॥१९०-२००॥गतमाककथानकम्, // 717 // नामनिष्पन्ननिक्षेपश्च। तदनन्तरं सूत्रानुगमेऽस्खलितादगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं पुराकडं अद्द! इमं सुणेह, मेगंतयारी समणे पुरासी।से भिक्खुणो उवणेत्ता अणेगे, आइक्खतिण्डिं पुढो वित्थरेणं ॥सूत्रम् 1 //