________________ श्रीसूत्रकृताङ्गमा क्वचिद्यास्यति अतः पञ्चभिः शतै राजपुत्राणां रक्षयितुमारेभे, आर्द्रककुमारोऽप्यश्ववाहनिकया विनिर्गतः प्रधानाश्वेन श्रुतस्कन्धः२ नियुक्ति षष्ठमध्ययनं श्रीशीला० प्रपलायितः। ततश्च प्रव्रज्यां गृह्णन् देवतया सोपसर्ग भवतोऽद्यापीति भणित्वा निवारितोऽप्यसावार्द्रको राज्यं तावन्न करोति आईक्रीयम्, वृत्तियुतम् कोऽन्यो मां विहाय प्रव्रज्यांग्रहीष्यतीत्यभिसंधाय तां देवतामवगणय्य प्रव्रजितः। विहरन्नन्यदाऽन्यतरप्रतिमाप्रतिपन्नः कायोत्सर्ग-1 नियुक्तिः श्रुतस्कन्धः 2 व्यवस्थितो वसन्तपुरेतया देवलोकच्युतया श्रेष्ठिदुहित्राऽपरदारिकामध्यगतयारमन्त्यै (ममाणयै)ष मम भर्तेत्येवमुक्ते सत्यनन्तर- 190-200 // 716 // आर्द्रकस्य मेव तत्सन्निहितदेवतयाऽर्द्धत्रयोदशकोटिपरिमाणा शोभनं वृतमनयेति भणित्वा हिरण्यवृष्टिर्मुक्ता, तां च हिरण्यवृष्टिं राजा गोशालादिना गृह्णन् देवतयाँ सर्पाभ्युत्थानतो विधृतोऽभिहितं च तया यथा- एतद्धिरण्यजातमस्या दारिकायाः नान्यस्य कस्यचिदित्यतस्त- सह विवादः त्पित्रा सर्वं संगोपितम्, आर्द्रककुमारोऽप्यनुकूलोपसर्ग इति मत्वाऽऽश्वेवान्यत्र गतः, गच्छति च काले दारिकाया वरकाः पूर्वभवश्च समागच्छन्ति, पृष्टौ च पितरौ तया-किमेषामागमनप्रयोजनं?, कथितं च ताभ्यां यथैते तव वरका इति, ततस्तयोक्तं- तात! सकृत्कन्याः प्रदीयन्ते नानेकशः, दत्ता चाहं तस्मै यत्सम्बन्धि हिरण्यजातं भवद्भिर्गहीतम्, ततःसा पित्राऽभाणि- किं त्वंतं जानीये?, तयोक्तं-तत्पादगताभिज्ञानदर्शनतोजानामीति, तदेवमसौतत्परिज्ञानार्थसर्वस्य भिक्षार्थिनो भिक्षांदापयितुं निरूपिता, ततो द्वादशभिर्वषैर्गतैः कदाचिच्चासौ भवितव्यतानियोगेन तत्रैव विहरन् समायातः, प्रत्यभिज्ञातश्च तया तत्पादचिह्नदर्शनतः, ततोऽसौदारिका सपरिवारा तत्पृष्ठतोजगाम, आर्द्रककुमारोऽपि देवतावचनंस्मरंस्तथाविधकर्मोदयाच्चावश्यंभाविभवितव्यतानियोगेन च प्रतिभग्नस्तया सार्द्धं भुनक्ति भोगान्, पुत्रश्चोत्पन्नः, पुनराककुमारेणासावभिहिता- साम्प्रतं ते पुत्रो द्वितीयः अहं // 716 // च स्वकार्यमनुतिष्ठामि, तया सुतव्युत्पादनार्थं कसकर्त्तनमारब्धम्, पृष्टा चासौ बालकेन- किमम्बैतद्भवत्या प्रारब्धमित७ सद्युत्था० (मु०)।