________________ श्रीसूत्रकृतान नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 714 // सह विवादः पूर्वभवश्व नि०- रायगिहागम चोरा रायभया कहण तेसि दिक्खाय।गोसालभिक्खुबंभी तिदंडिया तावसेहि सह वादो॥१९८ // श्रुतस्कन्धः२ नि०- वादे पराइइत्ता सव्वेविय सरणमब्भुवगता ते / अद्दगसहिया सव्वे जिणवीरसगासे निक्खंता // 199 // षष्ठमध्ययनं आईक्रीयम्, नि०- ण दुक्करं वाणरपासमोयणं, गयस्समत्तस्स वर्णमिरायं!जहा उवत्तावलिएण तंतुणा, सुदुक्कर मे पडिहाइ मोयणं / 200 // नियुक्तिः आर्यार्द्रकेण समवसरणाभिमुखमुच्चलितेन गोशालकभिक्षोस्तथा ब्रह्मवतिनां त्रिदण्डिनां यथा हस्तितापसानां च कथितमिदम-2 190-200 आर्द्रकस्य ध्ययनार्थजातं तथा वक्ष्ये सूत्रेणेति ॥साम्प्रतं सपूर्वभवमार्द्रककथानकं गाथाभिरेव नियुक्तिकृदाह- गामे इत्यादिगाथाष्टकम्, गोशालादिना आसां चार्थः कथानकादवसेयः, तच्चेदं- मगधाजनपदे वसन्तपुरको ग्रामः, तत्र सामायिको नाम कुटुम्बी प्रतिवसति, सच संसारभयोद्विग्नो धर्मघोषाचार्यान्तिके धर्म श्रुत्वा सपत्नीकः प्रव्रजितः, स च सदाचाररतः संविग्नैः साधुभिः सार्द्ध विहरति, इतरापि साध्वीभिः सहेति / कदाचिच्चासावेकस्मिन्नगरे भिक्षार्थमटन्ती दृष्टा तामसौ तथाविधकर्मोदयात्पूर्वरतानुस्मरणेन तस्यामध्युपपन्नः, तेन चात्मीयोऽभिप्रायो द्वितीयस्य साधोर्निवेदितः, तेनापि च तत्प्रवर्तिन्याः, तयाऽपि तस्याः, तयाऽपि चाभिहितं-नमम देशान्तरे एकाकिन्या गमनं युज्यते, न चासौ तत्राप्यनुबन्धं त्यक्ष्यतीत्यतो ममास्मिन्नवसरे भक्तप्रत्याख्यानमेव श्रेयो न पुनव्रतविलोपनमित्यतस्तया भक्तप्रत्याख्यानपूर्वकमात्मोद्बन्धनमकारि, मृता चासौ अगाद्देवलोकम् / श्रुत्वा चैनं व्यतिकरमसौ परं संवेगमुपगतश्चिन्तितंचतेन-तया व्रतभङ्गभयादिदमनुष्ठितं मम त्वसौ संजात एवेत्यतोऽहमपि भक्तप्रत्याख्यानं करोमीत्याचार्यस्यानिवेद्यैवासौ मायावी अथ च परमसंवेगापन्नः असावपि भक्तं प्रत्याख्याय दिवं गतः, ततोऽपि च प्रत्यागत्यार्द्रपुरे नगरे आर्द्रकसुत आर्द्रकाभिधानो जातः, साऽपि च देवलोकाच्च्युता वसन्तपुरे नगरे श्रेष्ठिकुले दारिका जाता। इतरोऽपि च परमरूपसंपन्नो यौवनस्थः संवृत्तः, अन्यदाऽस्याकपिता राजगृहे नगरे श्रेणिकस्य राज्ञः स्नेहाविष्करणार्थं // 714 //