SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 707 // श्रुतस्कन्धः२ पञ्चममध्ययनं अनाचारश्रुतम्, सूत्रम् 29-31 (731-733) कल्याणपापनिषेधः प्राक्प्रसाधितत्वादिति / एतच्च व्यवहाराभावाश्रयणं सर्वत्र प्रागपि योजनीयम्, तद्यथा- सर्वत्र वीर्यमस्ति नास्ति वा सर्वत्र वीर्यमित्येवंभूत एकान्तिको व्यवहारो न विद्यते, तथा नास्ति लोकोऽलोक इति वा, तथा न सन्ति जीवा अजीवा इति चेत्येवंभूतो व्यवहारोन विद्यत इत सर्वत्र सम्बन्धनीयम् / तथा वैर-वज्रं तद्वत्कर्मवैरं विरोधोवा वैरं तद्येन परोपघातादिनैकान्तपक्षसमाश्रयणेन वा भवति तत्ते श्रमणाः तीर्थका बाला इव रागद्वेषकलिता वा पण्डिताः पण्डिताभिमानिनःशुष्कतर्कदाध्माता न जानन्ति, परमार्थभूतस्याहिंसालक्षणस्य धर्मस्यानेकान्तपक्षस्य वाऽनाश्रयणादिति / यदिवा यद्वैतत्ते श्रमणा बालाः पण्डिता वा न जानन्तीत्येवं वाचं न निसृजेदित्युत्तरेण सम्बन्धः, किमिति न निसृजेत्?, यतस्तेऽपि किश्चिजानन्त्येव / अपिच तेषां तन्निमित्तकोपोत्पत्तेः, यच्चैवंभूतं वचस्तन्न वाच्यम्, यत उक्तं- अप्पत्तियं जेण सिया, आसु कुप्पिज वा परो। सव्वसो तंण भासेज्जा, भासं अहियगामिणिं // 1 // (दशवैका०अ० 8 सूत्रम् 48) इत्यादि॥ 29 // 731 // अपरमपि वाक्संयममधिकृत्याह-असेस मित्यादि, अशेष- कृत्स्नं तत्सांख्याभिप्रायेण अक्षतं- नित्यमित्येवंन ब्रूयात्, प्रत्यर्थं प्रतिसमयं चान्यथाऽन्यथाभावदर्शनात् स एवायमित्येवंभूतस्यैकत्वसाधकस्य प्रत्यभिज्ञानस्य लूनपुनर्जातेषु केशनखादिष्वपि प्रदर्शनात्, तथा अपिशब्दादेकान्तेन क्षणिकमित्येवमपि वाचं न निसृजेत्, सर्वथा क्षणिकत्वे पूर्वस्य सर्वथा विनष्टत्वादुत्तरस्य निर्हेतुक उत्पादः स्यात्, तथा च सति 'नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणा'दित्यादि / तथा सर्वं जगढुःखात्मकमित्येवमपि न ब्रूयात्, सुखात्मकस्यापि सम्यग्दर्शनादिभावेन दर्शनात्, तथा चोक्तं- तणसंथारनिसण्णोऽवि मुणिवरोभट्टरागमयमोहो। जंपावइ मुत्तिसुहं कत्तो तं चक्कवट्टीवि? लोको वा तथा (मु०)। कलिता: पण्डिताः (मु०) अप्रीतिकं यया स्यादाशु कुप्येद्वा परः सर्वथा तां न भाषेत भाषामहितगामिनीम् // O क्षणदिति (मु०)। 9 तृणसंस्तारकनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः / यत्प्राप्नोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि॥ 1 // // 707 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy