________________ अनाचारश्रुतम् कल्याणपाप श्रीसूत्रकृताङ्ग सर्वाशुचित्वे च बुद्धस्याप्यशुचित्वप्राप्तेः, नापि निरात्मानः स्वद्रव्यक्षेत्रकालभावापेक्षया सर्वपदार्थानां विद्यमानत्वात् पर- श्रुतस्कन्धः२ नियुक्ति पद्यममध्ययन द्रव्यादिभिस्तुन विद्यन्ते,सदसदात्मकत्वाद्वस्तुनः, तदुक्तं-स्वपरसत्ताव्युदासोपादानापाद्यं हि वस्तुनो वस्तुत्व मिति / तथाऽऽत्मा-8 श्रीशीला० वृत्तियुतम् द्वैतभावाभावात्पापाभावोऽपि नास्ति, अद्वैतभावे हि सुखी दुःखी सरोगो नीरोगः सुरूपः कुरूपो दुर्भगः सुभगोऽर्थवान् श्रुतस्कन्धः 2 दरिद्रस्तथाऽयमन्तिकोऽयं तु दवीयान् इत्येवमादिको जगद्वैचित्र्यभावोऽध्यक्षसिद्धोऽपि न स्यात् / यच्च समदर्शित्वमुच्यते सूत्रम् 29-31 // 706 // (731-733) ब्राह्मणचाण्डालादिषु तदपि समानपीडोत्पादनतो द्रष्टव्यम्, न पुनः कर्मापादितवैचित्र्यभावोऽपि तेषां ब्राह्मणचाण्डालादीनां नास्तीति, तदेवं कथञ्चित्कल्याणमस्ति तद्विपर्यस्तं तु पापकमिति / न चैकान्तेन कल्याणं कल्याणमेव, यतः केवलिनां निषेधः प्रक्षीणघनघातिकर्मचतुष्टयानांसातासातोदयसद्भावात्तथा नारकाणामपि पञ्चेन्द्रियत्वविशिष्टज्ञानादिसद्भावान्नैकान्तेन तेऽपि पापवन्त इति तस्मात्कथञ्चित्कल्याणं कथञ्चित्पापमिति स्थितम् // 28 // 730 // तदेवं कल्याणपापयोरनेकान्तरूपत्वं प्रसाध्यैकान्तं दूषयितुमाह कल्लाणे पावए वावि, ववहारोण विजइ / जवेरं तं न जाणंति, समणा बाल पंडिया। सूत्रम् 29 // ( / / 731 // ) असेसं अक्खयं वावि, सव्वदुक्खेति वा पुणो / वज्झा पाणा न वज्झत्ति, इति वायंन नीसरे। सूत्रम् 30 // ( // 732 // ) दीसंति समियायारा, भिक्खुणो साहुजीविणो। एए मिच्छोवजीवंति, इति दिहिन धारए।सूत्रम् 31 // ( // 733 // ) कल्यं- सुखमारोग्यं शोभनत्वं वा तदणतीति कल्याणं तदस्यास्तीति कल्याणो मत्वर्थीयाच्प्रत्ययान्तोऽर्शआदिभ्योऽजित्यनेन, कल्याणवानितियावत् / एवं पापकशब्दोऽपि मत्वर्थीयाच्प्रत्ययान्तो द्रष्टव्यः। तदेवं सर्वथा कल्याणवानेवायं तथा पापवानेवायमित्येवंभूतो व्यवहारो न विद्यते, तदेकान्तभूतस्यैवाभावात्, तदभावस्य च सर्ववस्तूनामनेकान्ताश्रयणेन