________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 705 // नास्ति न विद्यते ज्ञानदर्शनचारित्रक्रियोपेतो मोक्षमार्गव्यवस्थितः साधुः, संपूर्णस्य रत्नत्रयानुष्ठानस्याभावात्, तद्भावाच्च |श्रुतस्कन्धः२ पञ्चममध्ययनं तत्प्रतिपक्षभूतस्यासाधोरप्यभावः, परस्परापेक्षित्वादेतद्व्यवस्थानस्यैकतराभावे द्वितीयस्याप्यभाव इत्येवं संज्ञां नो निवेशयेत्, | अनाचारअपि तु अस्ति साधुः, सिद्धेः प्राक्साधितत्वात्, सिद्धिसत्ता च न साधुमन्तरेण, अतः साधुसिद्धिः, तत्प्रतिपक्षभूतस्य |श्रुतम्, चासाधोरिति / यश्च संपूर्णरत्नत्रयानुष्ठानाभावः प्रागाशङ्कितः ससिद्धान्ताभिप्रायमबुद्धेव, तथाहि-सम्यग्दृष्टरुपयुक्तस्यारक्त- सूत्रम् 27-28 (729-730) द्विष्टस्य सत्संयमवतः श्रुतानुसारेणाऽऽहारादिकं शुद्धबुद्ध्या गृह्णतः क्वचिदज्ञानादनेषणीयग्रहणसंभवेऽपि सततोपयुक्ततया साध्वसाधुसंपूर्णमेव रत्नत्रयानुष्ठानमिति,यश्च भक्ष्यमिदमिदं चाभक्ष्यं गम्यमिदमिदंचागम्यं प्रासुकमेषणीयमिदमिदंच विपरीतमित्येवं निषेधः रागद्वेषसंभवेन समभावरूपस्य सामायिकस्याभावः कैश्चिच्चोद्यते तत्तेषां चोदनमज्ञानविजृम्भणात्, तथाहि-न तेषां सामायिकवतांसाधूनांरागद्वेषतया भक्ष्याभक्ष्यादिविवेकः, अपितु प्रधानमोक्षाङ्गस्य सच्चारित्रस्य साधनार्थम्, अपिच- उपकारापकारयोः समभावतया सामायिकंन पुनर्भक्ष्याभक्ष्ययोः समप्रवृत्त्येति // 27 // 729 // तदेवं मुक्तिमार्गप्रवृत्तस्य साधुत्वमितरस्य / चासाधुत्वं प्रदाधुना च सामान्येन कल्याणपापवतोः सद्भावं प्रतिषेधनिषेधद्वारेणाह- णत्थि कल्लाण पावे वा इत्यादि, यथेष्टार्थफलसंप्राप्तिः कल्याणं तन्न विद्यते, सर्वाशुचितया निरात्मकत्वाच्च सर्वपदार्थानां बौद्धाभिप्रायेण, तथा तदभावे कल्याणवांश्च न कश्चिद्विद्यते, तथाऽऽत्माद्वैतवाद्यभिप्रायेण 'पुरुष एवेदं सर्व' मितिकृत्वा पापं पापवान् वा न कश्चिद्विद्यते, तदेवमुभयोरप्यभावः, तथा चोक्तं-विद्याविनयसंपन्ने, ब्राह्मणे गवि हस्तिनि / शुनि चैव श्वपाके च, पण्डिताः समदर्शिनः॥१॥ इत्येवमेव कल्याणपापकाभावरूपां संज्ञां नो निवेशयेद्, अपि त्वस्ति कल्याणं कल्याणवांश्च विद्यते, तद्विपर्यस्तं पापं तद्वांश्च विद्यते, इत्येवं संज्ञां निवेशयेत्, तथाहि- नैकान्तेन कल्याणाभावो यो बौद्धैरभिहितः, सर्वपदार्थानामशुचित्वासंभवात्, // 705