________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ | // 704 // श्रुतस्कन्धः 2 पञ्चममध्ययनं अनाचारश्रुतम्, सूत्रम् 27-28 (729-730) निषेधः 25 // 727 / साम्प्रतं सिद्धानां स्थाननिरूपणायाह- णत्थि सिद्धी त्यादि, सिद्धेः- अशेषकर्मच्युतिलक्षणाया निजं स्थानईषत्प्राग्भाराख्यं व्यवहारतो निश्चयतस्तु तदुपरि योजनक्रोशषड्भागः, तत्प्रतिपादकप्रमाणाभावात्स नास्तीत्येवं संज्ञां नो निवेशयेत्, यतो बाधकप्रमाणाभावात्साधकस्य चागमस्य सद्भावात्तत्सत्ता दुर्निवारेति / अपिच-अपगताशेषकल्मषाणां सिद्धानां केनचिद्विशिष्टेन स्थानेन भाव्यम्, तच्चतुर्दशरज्ज्वात्मकस्य लोकस्याग्रभूतं द्रष्टव्यम्, न च शक्यते वक्तुमाकाशवत्सर्वव्यापिनः सिद्धा इति, यतो लोकालोकव्याप्याकाशम्, न चालोके ऽपरद्रव्यस्य संभवः, तस्याकाशमात्ररूपत्वात्, लोकमात्रव्यापित्वमपि नास्ति, विकल्पानुपपत्तेः, तथाहि- सिद्धावस्थायां तेषां व्यापित्वमभ्युपगतमुत प्रागपि?, न तावत्सिद्धावस्थायाम्, तद्व्यापित्वभवने निमित्ताभावात्, नापि प्रागवस्थायाम, तद्भावे सर्वसंसारिणां प्रतिनियतसुखदुःखानुभवो न स्यात्, न च शरीराद्वहिरवस्थितमवस्थानमस्ति, तत्सत्तानिबन्धनस्य प्रमाणस्याभावात्, अतः सर्वव्यापित्वं विचार्यमाणं न कथञ्चिद् घटते, तदभावे च लोकाग्रमेव सिद्धानां स्थानम्, तद्गतिश्च ‘कर्मविमुक्तस्योर्ध्वं गति' रितिकृत्वा भवति, तथा चोक्तं-लाउ एरंडफले अग्गी धूमे य उसु धणुविमुक्के। गइ पुव्वपओगेणं एवं सिद्धाणवि गईओ॥१॥ इत्यादि। तदेवमस्ति सिद्धिस्तस्याश्च निजंस्थानमित्येवं संज्ञां निवेशयेदिति // 26 // 728 ॥साम्प्रतं सिद्धेःसाधकानांसाधूनां तत्प्रतिपक्षभूतानामसाधूनां चास्तित्वं प्रतिपिपादयिषुः पूर्वपक्षमाह णत्थि साहू असाहू वा, णेवं सन्नं निवेसए। अत्थिसाहू असाहू वा, एवं सन्नं निवेसए।सूत्रम् 27 // ( // 729 // ) णस्थि कल्लाण पावे वा, णेवं सन्नं निवेसए। अस्थि कल्लाण पावे वा, एवं सन्नं निवेसए।सूत्रम् 28 // ( / / 730 // ) (r) अलाबुकैरण्डफलाग्निधूमेषु धनुर्मुक्ते इषौ पूर्वप्रयोगेण गतिरेवं सिद्धानामपि गतयः / / 1 / / 38888888888888888888888888 // 704 //