________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः न्धः // 703 // श्रुतस्कन्ध:२ पञ्चममध्ययन अनाचारश्रुतम्, सूत्रम् 25-26 (727-728) सिद्धयसिद्धिनिषेधः ध्येनानन्तरमेव प्रसाधिताया अविगानेनास्तित्वं प्रसिद्धम्, तद्विपर्ययेण सिद्धेरप्यस्तित्वमनिवारितमित्यतोऽस्ति सिद्धिरसिद्धिवेत्येवं संज्ञां निवेशयेदिति स्थितम्, इदमुक्तं भवति- सम्यग्दर्शनज्ञानचारित्रात्मकस्य मोक्षमार्गस्य सद्भावात्कर्मक्षयस्य च पीडोपशमादिनाऽध्यक्षेण दर्शनादतः कस्यचिदात्यन्तिककर्महानिसिद्धरस्ति सिद्धिरिति, तथा चोक्तं-दोषावरणयोहानिर्निःशेषाऽस्त्यतिशायिनी / क्वचिद्यथा स्वहेतुभ्यो, बहिरन्तर्मलक्षयः॥१॥ इत्यादि, एवं सर्वज्ञसद्भावोऽपि संभवानुमानाष्टव्यः, तथाहिअभ्यस्यमानायाः प्रज्ञाया व्याकरणादिना शास्त्रसंस्कारेणोत्तरोत्तरवृद्ध्या प्रज्ञातिशयो दृष्टः, तत्र कस्यचिदत्यन्तातिशयप्राप्तेः सर्वज्ञत्वं स्यादिति संभवानुमानम्, न चैतदाशङ्कनीयम्, तद्यथा- ताप्यमानमुदकमत्यन्तोष्णतामियान्नाग्निसाद्भवेत्, तथा दशहस्तान्तरं व्योम्नि यो नामोत्प्लुत्य गच्छति। न योजनमसौ गन्तुं, शक्तोऽभ्यासशतैरपि॥१॥इति, दृष्टान्तदाान्तिकयोरसाम्यात्, तथाहि-ताप्यमानंजलं प्रतिक्षणं क्षयं गच्छेत् प्रज्ञा तु विवर्द्धते, यदिवा प्लोषोपलब्धेरव्याहतमग्नित्वम्, तथा प्लवनविषयेऽपि पूर्वमर्यादाया अनतिक्रमाद्योजनोत्प्लवनाभावः, तत्परित्यागे चोत्तरोत्तरं वृद्ध्या प्रज्ञाप्रकर्षगमनवद्योजनशतमपि गच्छेदित्यतो Hदृष्टान्तदाान्तिकयोरसाम्यादेतन्नाशनीयमिति स्थितम्, प्रज्ञावृद्धेश्च बाधकप्रमाणाभावादस्ति सर्वज्ञत्वप्राप्तिरिति / यदिवा अञ्जनभृतसमुद्गकदृष्टान्तेन जीवाकुलत्वाजगतो हिंसाया दुर्निवारत्वात्सिद्ध्यभावः, तथा चोक्तं-जले जीवाः स्थले जीवा, आकाशे जीवमालिनि / जीवमालाकुले लोके, कथं भिक्षुरहिंसकः?॥१॥इत्यादि, तदेवं सर्वस्यैव हिंसकत्वात्सिद्ध्यभाव इति, तदेतदयुक्तम्, तथाहि-सदोषयुक्तस्य पिहिताश्रवद्वारस्य पञ्चसमितिसमितस्य त्रिगुप्तिगुप्तस्य सर्वथा निरवद्यानुष्ठायिनो द्विचत्वारिंशद्दोषरहितभिक्षाभुज ईर्यासमितस्य कदाचिद्व्यतःप्राणिव्यपरोपणेऽपि तत्कृतबन्धाभावः, सर्वथा तस्यानवद्यत्वात्, तथा चोक्तं-उच्चालियंमि पाए, इत्यादि प्रतीतम्, तदेवं कर्मबन्धाभावात्सिद्धेः सद्भावोऽव्याहतः, सामग्र्यभावादसिद्धिसद्भावोऽपीति॥ // 703