SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ पञ्चममध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / / 702 // अतश्चातुर्विध्यं न कथञ्चिद् घटत इत्येवं संज्ञां नो निवेशयेद्, अपितु अस्ति चतुरन्तः संसार इत्येवं संज्ञां निवेशयेत् / यत्तूक्तं- श्रुतस्कन्धः 2 एकविधः संसारः, तन्नोपपद्यते, यतोऽध्यक्षेण तिर्यअनुष्ययोर्भेदः समुपलभ्यते, न चासावेकविधत्वे संसारस्य घटते, तथा / अनाचारसंभवानुमानेन नारकदेवानामप्यस्तित्वाभ्युपगमाद्वैविध्यमपिन विद्यते, संभवानुमानंतु-सन्ति पुण्यपापयोः प्रकृष्टफलभुजः, श्रुतम्, तन्मध्यफलभुजां तिर्यमनुष्याणां दर्शनाद्, अतः संभाव्यन्ते प्रकृष्टफलभुजो, ज्योतिषां प्रत्यक्षेणैव दर्शनाद्, अथ तद्विमानाना- सूत्रम् 25-26 (727-728) / मुपलम्भः, एवमपि तदधिष्ठातृभिः कैश्विद्भवितव्यमित्यनुमानेन गम्यन्ते, ग्रहगृहीतवरप्रदानादिना च तदस्तित्वानुमितिः, सिद्धयसिद्धितदस्तित्वे तु प्रकृष्टपुण्यफलभुज इव प्रकृष्टपापफलभुग्भिरपि भाव्यमित्यतोऽस्ति चातुर्विध्यं संसारस्य, पर्यायनयाश्रयणे तु निषेधः यदनेकविधत्वमुच्यते तदयुक्तम्, यतः सप्तपृथिव्याश्रिता अपि नारकाः समानजातीयाश्रयणादेकप्रकारा एव, तथा तिर्ययोऽपि / पृथिव्यादयःस्थावरास्तथा द्वित्रिचतुःपञ्चेन्द्रियाश्च द्विषष्टियोनिलक्षप्रमाणाः सर्वेऽप्येकविधा एव, तथा मनुष्या अपि कर्मभूमिजाकर्मभूमिजान्तरद्वीपकसंमूर्च्छनजात्मकभेदमनादृत्यैकविधत्वेनैवाश्रिताः, तथा देवा अपि भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदेन भिन्ना एकविधत्वेनैव गृहीताः, तदेवं सामान्यविशेषाश्रयणाच्चातुर्विध्यं संसारस्य व्यवस्थितं नैकविधत्वम्, संसारवैचित्र्यदर्शनात्, नाप्यनेकविधत्वं सर्वेषां नारकादीनांस्वजात्यनतिक्रमादिति // 23-24 // 725-726 ॥सर्वभावानां सप्रतिपक्षत्वात्संसारसद्भावेसति अवश्यं तद्विमुक्तिलक्षणया सिद्ध्यापि भवितव्यमित्यतोऽधुनासप्रतिपक्षां सिद्धिं दर्शयितुमाहणत्थि सिद्धी असिद्धी वा, णेवं सन्नं निवेसए। अस्थि सिद्धी असिद्धी वा, एवं सन्नं निवेसए।सूत्रम् 25 // ( / 727 // ) // 702 // णत्थि सिद्धी नियं ठाणं, णेवं सन्नं निवेसए।अस्थि सिद्धी नियं ठाणं, एवं सन्नं निवेसए / / सूत्रम् 26 // ( // 728 // ) सिद्धिः अशेषकर्मच्युतिलक्षणा तद्विपर्यस्ता चासिद्धिर्नास्तीत्येवं नो संज्ञां निवेशयेद्, अपि त्वसिद्धेः-संसारलक्षणायाश्चातुर्वि
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy