________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 701 // श्रुतस्कन्ध:२ पञ्चममध्ययन अनाचार सूत्रम् 23-24 (725-726) क्रोधादिनिषेधः वद्वस्त्वन्तरत्वादित्यतोऽस्ति क्रोधो मानश्चेत्येवं संज्ञां निवेशयेत् // 20 // 722 // साम्प्रतं मायालोभयोरस्तित्वं दर्शयितुमाहअत्रापि प्राग्वन्मायालोभयोरभाववादिनं निराकृत्यास्तित्वं प्रतिपादनीयमिति // 21 // 723 // साम्प्रतमेषामेव क्रोधादीनां समासेनास्तित्वं प्रतिपादयन्नाह- प्रीतिलक्षणं प्रेम-पुत्रकलत्रधनधान्याद्यात्मीयेषु रागस्तद्विपरीतादात्मात्मीयोपघातकारिणि द्वेषः,तावेतौ द्वावपि न विद्येते, तथाहि-केषाञ्चिदभिप्रायो यदुत- मायालोभावेवावयवौ विद्येते, न तत्समुदायरूपोरागोडवयव्यस्ति, तथा क्रोधमानावेवस्तः, न तत्समुदायरूपोऽवयवी द्वेष इति, तथाहि-अवयवेभ्यो यद्यभिन्नोऽवयवी तर्हि तदभेदात्त एव नासौ अथ भिन्नः पृथगुपलम्भः स्याद् घटपटवदित्येवमसद्विकल्पमूढतया नो संज्ञां निवेशयेत्, यतोऽवयवावयविनोः कथञ्चिद्भेदः कथञ्चिदभेद इत्येवं भेदाभेदाख्यतृतीयपक्षसमाश्रयणात्प्रत्येकपक्षाश्रितदोषानुपपत्तिरिति, एवं चास्ति प्रीतिलक्षणं प्रेमाप्रीतिलक्षणश्च द्वेष इत्येवं संज्ञां निवेशयेत् ॥२२॥७२४॥साम्प्रतं कषायसद्भावे सिद्धेसति तत्कार्यभूतोऽवश्यंभावी संसारसद्भाव इत्येतत्प्रतिषेधनिषेधद्वारेण प्रतिपादयितुमाह___णत्थि चाउरंते संसारे, णेवं सन्नं निवेसए। अत्थि चाउरंते संसारे, एवं सन्नं निवेसए।सूत्रम् 23 // ( // 725 // ) णत्थि देवो व देवी वा, णेवं सन्नं निवेसए। अत्थि देवो व देवी वा, एवं सन्नं निवेसए।सूत्रम् 24 // ( // 726 // ) चत्वारोऽन्ता- गतिभेदा नरकतिर्यड्नरामरलक्षणा यस्य संसारस्यासौ चतुरन्तः संसार एव कान्तारो भयैकहेतुत्वात्, सच चतुर्विधोऽपि न विद्यते,अपितु सर्वेषां संसृतिरूपत्वात्कर्मबन्धात्मकतया च दुःखैकहेतुत्वादेकविध एव, अथवा नारकदेवयोरनुपलभ्यमानत्वात्तिर्यमनुष्ययोरेव सुखदुःखोत्कर्षतया तद्व्यवस्थानाद् द्विविधः संसारः, पर्यायनयाश्रयणात्त्वनेकविधः, Oरीतस्त्वात्मीयोपघात० (मु०)। ॐ द्रेद इत्येवं (मु०)। // 709 N