________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 700 / / श्रुतस्कन्धः२ पश्चममध्ययनं अनाचारश्रुतम्, सूत्रम् 20-22 (722-724) क्रोधादिनिषेधः क्रियाया अभावः?, अपि च-एकान्तेन क्रियाऽभावे संसारमोक्षाभावः स्यादित्यतोऽस्ति क्रिया, तद्विपक्षभूता चाक्रियेत्येवं संज्ञां निवेशयेदिति // 19 // 721 // तदेवं सक्रियात्मनि सति क्रोधादिसद्भाव इत्येतदर्शयितुमाह णत्थि कोहे व माणे वा, णेवं सन्नं निवेसए। अत्थि कोहे व माणे वा, एवं सन्नं निवेसए / / सूत्रम् 20 / / ( / / 722 // ) णत्थि माया व लोभेवा, णेवं सन्नं निवेसए। अत्थि मायाव लोभेवा, एवं सन्नं निवेसए।सूत्रम् 21 // ( // 723 // ) णत्थि पेज्जे व दोसेवा,णेवं सन्नं निवेसए। अस्थि पेजे व दोसे वा, एवं सन्नं निवेसए॥सूत्रम् 22 // // 724 // ) स्वपरात्मनोरप्रीतिलक्षणः क्रोधः, स चानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदेन चतुर्धाऽऽगमे पठ्यते, तथैतावद्भेद एव मानो गर्वः, एतौ द्वावपि न स्तो न विद्यते, तथाहि-क्रोधः केषांचिन्मतेन मानांश एव अभिमानग्रहगृहीतस्य तत्कृतावत्यन्तक्रोधोदयदर्शनात्, क्षपकश्रेण्यांच भेदेन क्षपणानभ्युपगमात्, तथा किमयमात्मधर्म आहोस्वित्कर्मण उतान्यस्येति?, तत्रात्मधर्मत्वे सिद्धानामपि क्रोधोदयप्रसङ्गः, अथ कर्मणस्ततस्तदन्यकषायोदयेऽपि तदुदयप्रसङ्गात् मूर्तत्वाच्च कर्मणो घटस्येव तदाकारोपलब्धिः स्याद्,अन्यधर्मत्वे त्वकिञ्चित्करत्वमतो नास्ति क्रोध इत्येवं मानाभावोऽपि वाच्य इत्येवं संज्ञां नो निवेशयेत्, यतः कषायकर्मोदयवर्ती दृष्टोष्ठः कृतभृकुटीभङ्गो रक्तवदनोगलत्स्वेदबिन्दुसमाकुलः क्रोधाध्मातः समुपलभ्यते, न चासौ मानांशः, तत्कार्याकरणात् तथा परनिमित्तोत्थापितत्वाच्चेति, तथा जीवकर्मणोरुभयोरप्ययं धर्मः, तद्धर्मत्वे च प्रत्येकविकल्पदोषानुपपत्तिः, अनभ्युपगमात्, संसार्यात्मनां कर्मणा सार्द्ध पृथग्भवनाभावात्तदुभयस्य च नरसिंह O मानक्रियायां मानिक्रियायां वा। ॐ अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानां युगपत्क्षपणात् संज्वलनक्रोधस्यापि मानदलिकेषु क्षेपेण क्षपणात्। O कर्मभूतक्रोधस्य स्वतन्त्राकारोपलब्धिप्रसङ्गात्। 0 तत्कार्यतचापरनि प्र०। 8 // 700 /