SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 अनाचार प्रत्याशङ्काकारणमिदम्, तद्यथा-पल्योपमसागरोपमशतानुभवनीयं कर्मान्तर्मुहूर्तेनैव क्षयमुपयातीत्यभ्युपगमात्, तदुक्तं-ज श्रुतस्कन्ध:२ अण्णाणी कम्म खवेइ बहुयाहिं वासकोडीहिं। तं णाणी तिहि गुत्तो खवेइ ऊसासमित्तेणं॥ 1 // इत्यादि, तथा क्षपकश्रेण्यां चल पद्यममध्ययन झटित्येव कर्मणो भस्मीकरणाद्यथाक्रमबद्धस्य चानुभवनाभावे वेदनाया अभावः तदभावाच्च निर्जराया अपीत्येवं नो संज्ञा |श्रुतम्, निवेशयेत् / किमिति?, यतः कस्यचिदेव कर्मण एवमनन्तरोक्तया नीत्या क्षपणात्तपसा प्रदेशानुभवेन च अपरस्य तूदयो- सूत्रम् 18-19 (720-721) दीरणाभ्यामनुभवनमित्यतोऽस्ति वेदना, यत आगमोऽप्येवंभूत एव, तद्यथा-पुब्विं दुच्चिण्णाणं दुप्पडिकंताण कम्माणं वेयइत्ता वेदनानिर्जरा मोक्खो, णत्थि अवेयइत्ता इत्यादि, वेदनासिद्धौ च निर्जराऽस्ति सिद्धैवेत्यतोऽस्ति वेदना निर्जरा चेत्येवं संज्ञां निवेशयेदिति निषदः 18 // 720 // वेदनानिजरे च क्रियाऽक्रियायत्ते, ततस्तत्सद्भावं प्रतिषेधनिषेधपूर्वकं दर्शयितुमाह- क्रिया- परिस्पन्दलक्षणा तद्विपर्यस्ता त्वक्रिया, ते द्वे अपि, नस्तो न विद्यते, तथाहि-सांख्यानां सर्वव्यापित्वादात्मन आकाशस्येव परिस्पन्दात्मिका क्रिया न विद्यते, शाक्यानां तु क्षणिकत्वात्सर्वपदार्थानां प्रतिसमयमन्यथा चान्यथा चोत्पत्तेः पदार्थसत्तैव, न तव्यतिरिक्ता काचित्क्रियाऽस्ति, तथा चोक्तं- भूतियेषां क्रिया सैव, कारकं सैव चोच्यते इत्यादि, तथा सर्वपदार्थानां प्रतिक्षणमवस्थान्तरगमनात्सक्रियत्वमतोऽक्रिया न विद्यते इत्येवं संज्ञां नो निवेशयेत्, किं तर्हि?, अस्ति क्रिया अक्रिया चेत्येवं संज्ञां निवेशयेत्, तथाहि-शरीरात्मनोर्देशाद्देशान्तरावाप्तिनिमित्ता परिस्पन्दात्मिका क्रिया प्रत्यक्षेणैवोपलभ्यते, सर्वथा निष्क्रियत्वे चात्मनोऽभ्युपगम्यमाने गगनस्येव बन्धमोक्षाद्यभावः, स च दृष्टेष्टबाधितः, तथा शाक्यानामपि प्रतिक्षणोत्पत्तिरेव क्रियेत्यतः कथं Oजातौ बहुत्वम्, तथा च कोटाकोट्याऽनुभवोप्यविरुद्धः, तत्र क्षपणेऽपि न वेदनाऽस्तीति हेतुदर्शनाय / 0 यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः। तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छासमात्रेण // 1 // 0 पूर्वं दुश्चीर्णानां दुष्प्रतिक्रान्तानां कर्मणां वेदयित्वा मोक्षो नास्त्यवेदयित्वा। 0 भूतियैषा(प्र०)। // 69
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy