________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 697 // श्रुतस्कन्ध:२ पञ्चममध्ययनं |अनाचारश्रुतम्, सूत्रम् 16-17 (718-719) पुण्यपापानिषदः सद्भावादात्यन्तिकममूर्तत्वं न भवतीति / तथा तत्प्रतिपक्षभूतो मोक्षोऽप्यस्ति, तदभावे बन्धस्याप्यभावः स्यादित्यतोऽशेषबन्धनापगमस्वभावो मोक्षोऽस्तीत्येवं च संज्ञां निवेशयेदिति // 15 // 717 // बन्धसद्भावे चावश्यं भावी पुण्यपापसद्भाव इत्यतस्तद्भावं निषेधद्वारेणाह णत्थि पुण्णे व पावे वा, णेवं सन्नं निवेसए। अत्थि पुण्णे व पावेवा, एवं सन्नं निवेसए। सूत्रम् 16 / / ( // 718 // ) णत्थि आसवे संवरे वा, णेवंसन्नं निवेसए। अत्थि आसवे संवरेवा, एवं सन्नं निवेसए।सूत्रम् 17 // ( // 719 // ) नास्ति न विद्यते पुण्यं शुभकर्मप्रकृतिलक्षणं तथा पापं तद्विपर्ययलक्षणं नास्ति न विद्यते इत्येवं संज्ञांनो निवेशयेत् / तदभावप्रतिपत्तिनिबन्धनं त्विदं-तत्र केषाञ्चिन्नास्ति पुण्यम्, पापमेव ह्युत्कर्षापकर्षावस्थं सत्सुखदुःखनिबन्धनम्, तथा परेषां पापं नास्ति, पुण्यमेव ह्यपचीयमानं पापकार्यं कुर्यादिति, अन्येषां तूभयमपि नास्ति, संसारवैचित्र्यं तु नियतिस्वभावादिकृतम्, तदेतदयुक्तम्, यतः पुण्यपापशब्दौ सम्बन्धिशब्दौ सम्बन्धिशब्दानामेकांशस्य सत्ताऽपरसत्तानान्तरीयका अतो नैकतरस्य सत्तेति, नाप्युभयाभावः शक्यते वक्तुम्, निर्निबन्धनस्य जगद्वैचित्र्यस्याभावात्, न हि कारणमन्तरेण क्वचित्कार्यस्योत्पत्तिदृष्टा, नियतिस्वभावादिवादस्तु नष्टोत्तराणां पादप्रसारिकाप्रायः, अपि च- तद्वादेऽभ्युपगम्यमाने सकलक्रियावैयर्थ्यं तत एव सकलकार्योत्पत्तेरित्यतोऽस्ति पुण्यं पापं चेत्येवं संज्ञां निवेशयेत् / पुण्यपापे चैवंरूपे, तद्यथा- पुद्गलकर्म शुभं यत्तत्पुण्यमिति जिनशासने दृष्टम् / यदशुभमथ तत्पापमिति भवति सर्वज्ञनिर्दिष्टम् ॥१॥इति ॥१६॥७१८॥न कारणमन्तरेण कार्यस्योत्पत्तिरतः पुण्यपापयोः प्रागुक्तयोः कारणभूतावाश्रवसंवरौ तत्प्रतिषेधनिषेधद्वारेण दर्शयितुकाम आह-आश्रवति-प्रविशति कर्म येन O तद्भावे प्र० कर्मपुद्गलानामनिर्जरणेन मोक्षाभावात्सर्वेषां कालेनादानादपरेषां चाभावाद्वन्धाभावः)। 0 सम्बन्धिशब्दत्वात्। ॐ ह्युत्कर्षावस्थं (मु०)। // 697 // P