SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 696 // स्वरूपः __णत्थि बंधे व मोक्खे वा, णेवं सन्नं निवेसए। अत्थि बंधे व मोक्खेवा, एवं सन्नं निवेसए। सूत्रम् 15 // // 717 // ) श्रुतस्कन्धः 2 धर्मः श्रुतचारित्रात्मको जीवस्यात्मपरिणामः कर्मक्षयकारणम्, एवमधर्मोऽपि मिथ्यात्वाविरतिप्रमादकषाययोगरूपः / पश्चममध्ययन अनाचार कर्मबन्धकारणमात्मपरिणाम एव, तावेवंभूतौ धर्माधर्मों कालस्वभावनियतीश्वरादिमतेन न विद्यते इत्येवं संज्ञा नो निवेशयेत् श्रुतम्, कालादय एवास्य सर्वस्य जगद्वैचित्र्यस्य धर्माधर्मव्यतिरेकेणैकान्ततः कारणमित्येवमभिप्रायं न कुर्याद्, यतस्त एवैकका न सूत्रम् 14-15 (716-717) कारणमपि तु समुदिता एवति, तथा चोक्तं-न हि कालादीहिंतो केवलएहितो जायए किंचि / इह मुग्गरंधणाइवि ता सव्वे समुदिया है धर्माधर्मयोः हेऊ॥१॥इत्यादि। यतो धर्माधर्मावन्तरेण संसारवैचित्र्यं न घटामियर्त्यतोऽस्ति धर्म:- सम्यग्दर्शनादिकोऽधर्मश्च-मिथ्यात्वादिक इत्येवं संज्ञां निवेशयेदिति ॥१४॥७१६॥सतोश्च धर्माधर्मयोर्बन्धमोक्षसद्भाव इत्येतद्दर्शयितुमाह- बन्धः- प्रकृतिस्थित्यनुभावप्रदेशात्मकतया कर्मपुद्गलानां जीवेन स्वव्यापारतः स्वीकरणम्, स चामूर्तस्यात्मनो गगनस्येव न विद्यत इत्येवं नो संज्ञा निवेशयेत, तथा तदभावाच्च मोक्षस्याप्यभाव इत्येवमपि संज्ञांनो निवेशयेत् / कथं तर्हि संज्ञां निवेशयेदित्युत्तरार्द्धन दर्शयतिअस्ति बन्धः कर्मपुद्गलैर्जीवस्येत्येवं संज्ञां निवेशयेदिति, यत्तूच्यते- अमूर्तस्य मूर्तिमता सम्बन्धो न युज्यत इति, तदयुक्तम् , आकाशस्य सर्वव्यापितया पुद्गलैरपि सम्बन्धो दुर्निवार्यः, तदभावे तद्व्यापित्वमेव न स्याद्, अन्यच्च विज्ञानस्य हृत्पूरमदिरादिना विकारः समुपलभ्यते न चासौ सम्बन्धमृते अतो यत्किञ्चिदेतत् / अपिच-संसारिणामसुमतांसदा तैजसकार्मणशरीर-38 Gधर्माधर्मान्तरेण (मु०)। 0 नैव कालादिभ्यः केवलेभ्यो जायते किञ्चिदपि / इह मुद्गरन्धनाद्यपि ततः सर्वे समुदिता हेतुः // 1 // ॐ नारकत्वादिविशिष्टजीव // 696 // निबन्धनयोः बहुव्रीहिर्वा / 0 मूर्तस्यामूर्त्तिमता प्र०। 9 अन्यच्च अस्य वि० (मु०)।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy