SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 695 // नालक्षणान विद्यन्त इत्येवं संज्ञा-परिज्ञानं नो निवेशयेत्, नास्तित्वनिबन्धनं त्विदं-प्रत्यक्षेणानुपलभ्यमानत्वान्जीवान विद्यन्ते, कायाकारपरिणतानि भूतान्येव धावनवल्गनादिकां क्रियां कुर्वन्तीति / तथाऽऽत्माद्वैतवादमताभिप्रायेण पुरुष एवेदं निं सर्वं यद्भूतं यच्च भाव्य' मित्यागमात् तथा अजीवान विद्यन्ते सर्वस्यैव चेतनाचेतनरूपस्यात्ममात्रविवर्त्तत्वात् नो एवं संज्ञां निवेशयेत्, किंत्वस्ति जीवः सर्वस्यास्य सुखदुःखादेर्निबन्धनभूतःस्वसंवित्तिसिद्धोऽहंप्रत्ययग्राह्यः, तथा तद्व्यतिरिक्ता धर्माधर्माकाशपुद्गलादयश्च विद्यन्ते, सकलप्रमाणज्येष्ठेन प्रत्यक्षेणानुभूयमानत्वात्तगुणानाम्, भूतचैतन्यवादी च वाच्यः- किं तानि भवदभिप्रेतानि भूतानि नित्यान्युतानित्यानि?, यदि नित्यानि ततोऽप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वान्न कायाकारपरिणतिः, नापि प्रागविद्यमानस्य चैतन्यस्य सद्भावो, नित्यत्वहानेः / अथानित्यानि किं तेष्वविद्यमानमेव चैतन्यमुत्पद्यते आहोस्विद्विद्यमानं?, न तावदविद्यमानमतिप्रसङ्गाद, अभ्युपेतागमलोपाद्वा, अथ विद्यमानमेव सिद्धंतर्हि जीवत्वम् / तथाऽऽत्माद्वैतवाद्यपिवाच्यःयदि पुरुषमात्रमेवेदं सर्वंकथं घटपटादिषु चैतन्यं नोपलभ्यते?, तथा तदैक्येऽभेदनिबन्धनाना पक्षहेतुदृष्टान्तानामभावात्साध्यसाधनाभावः, तस्मान्नैकान्तेन जीवाजीवयोरभावः, अपितु सर्वपदार्थानां स्याद्वादाश्रयणाजीवः स्याज्जीवः स्यादजीवः अजीवोऽपि स्यादजीवः स्याज्जीव इति, एतच्च स्याद्वादाश्रयणं जीवपुद्गलयोरन्योऽन्यानुगतयोः शरीरप्रत्यक्षतयाऽध्यक्षेणैवोपलम्भाद्रष्टव्यमिति // 13 // 715 // जीवास्तित्वे च सिद्धे तन्निबन्धनयोः सदसत्क्रियाद्वारायातयोधर्माधर्मयोरस्तित्वप्रतिपादनायाह णथि धम्मे अधम्मेवा, णेवं सन्नं निवेसए। अत्थि धम्मे अधम्मेवा, एवं सन्नं निवेसए। सूत्रम् 14 // ( // 716 // ) सर्वं वस्तु प्र०10 पक्षाभ्युच्चये। 0 विवर्ति० प्र०। 0 नरूपः प्र०10 अभेदसिद्धिनिबन्धनानाम् / भेदनिबन्धनानामिति चेद् भेदजानामित्यर्थः / श्रुतस्कन्धः२ पचममध्ययन अनाचारश्रुतम् सूत्रम् 12-13 (714-715) लोकालोकस्वरूपः सूत्रम् 14-15 (716-717) धर्माधर्मयोः स्वरूप // 695 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy