SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 694 // स्वरूप: भासनासंभवात्, सर्वारातीयभागस्य च परमाण्वात्मकत्वात्तेषां च छद्मस्थविज्ञानेन द्रष्टुमशक्यत्वात्, तथा चोक्तं- यावदृश्य श्रुतस्कन्ध:२ परस्तावद्भागः स च न दृश्यते / निरंशस्य च भागस्य, नास्ति छद्मस्थदर्शनम्॥१॥ इत्यादि, नाप्यवयविद्वारेण, विकल्प्यमान पचममध्ययन अनाचारस्यावयविन एवाभावात्, तथाहि-असौ स्वावयवेषु प्रत्येकं सामस्त्येन वा वर्तेत? अंशांशिभावेन वा?, न सामस्त्येनावयवि श्रुतम्, बहुत्वप्रसङ्गात् नाप्यंशेन पूर्वविकल्पानतिक्रमेणानवस्थाप्रसङ्गात्, तस्माद्विचार्यमाणंन कथञ्चिद्वस्त्वात्मभावं लभते, ततः सूत्रम् 12-13 सर्वमेवैतन्मायास्वप्नेन्द्रजालमरुमरीचिकाविज्ञानसदृशम्, तथा चोक्तं- यथा यथाऽर्थाश्चिन्त्यन्ते, विविच्यन्ते तथा तथा / यद्येतत् / (714-715) लोकालोकस्वयमर्थेभ्यो, रोचन्ते तत्र के वयम्?॥ 1 // इत्यादि। तदेवं वस्त्वभावे तद्विशेषलोकालोकाभावः सिद्ध एवेत्येवं नो संज्ञा निवेशयेत् / किंत्वस्ति लोक ऊर्ध्वाधस्तिर्यग्रूपो वैशाखस्थानस्थितकटिन्यस्तकरयुग्मपुरुषसदृशः पञ्चास्तिकायात्मकोवा, तद्व्यतिरिक्तश्चालोकोऽप्यस्ति, सम्बन्धिशब्दत्वात्, लोकव्यवस्थाऽन्यथाऽनुपपत्तेरिति भावः, युक्तिश्चात्र- यदि सर्वं नास्ति तत सर्वान्तःपातित्वात्प्रतिषेधकोऽपि नास्तीत्यतस्तदभावात्प्रतिषेधाभावः, अपिच-सति परमार्थभूते वस्तुनि मायास्वप्नेन्द्रजालादिव्यवस्था, अन्यथा किमाश्रित्य को वा मायादिकं व्यवस्थापयेदिति?। अपिच-सर्वाभावो यथाऽभीष्टो, युक्त्यभावे न सिद्ध्यति / साऽस्ति चेत्सैव नस्तत्त्वं, तत्सिद्धौ सर्वमस्तु सद् ॥१॥इत्यादि / यदप्यवयवावयविविभागकल्पनया दूषणमभिधीयते / तदप्यार्हतमतानभिज्ञेन, तन्मतं त्वेवंभूतम्, तद्यथा- नैकान्तेनावयवा एव नाप्यवयव्येव चेत्यतः स्याद्वादाश्रयणात्पूर्वोक्तविकल्पदोषानुपपत्तिरित्यतः कथञ्चिल्लोकोऽस्त्येवमलोकोऽपीति स्थितम् // 12 // 714 // तदेवं लोकालोकास्तित्वं प्रतिपाद्याधुना तद्विशेषभूतयोर्जीवाजीवयोरस्तित्वप्रतिपादनायाह- णत्थि जीवा अजीवा वेत्यादि, जीवा उपयोगलक्षणाः संसारिणो मुक्ता वा ते न विद्यन्ते, तथा अजीवाश्च धर्माधर्माकाशपुद्गलकालात्मका गतिस्थित्यवगाहदानच्छायातपोद्योतादिवर्त्त // 694
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy