SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 693 // पेक्षया विवक्षितत्वात्स्यादस्ति चावक्तव्यं चेति, तथैकस्यांशस्य परद्रव्याद्यपेक्षया परस्य तु यौगपद्येन स्वपरद्रव्याद्यपेक्षया श्रुतस्कन्धः 2 स्यान्नास्ति चावक्तव्यं चेति, तथैकस्यांशस्य स्वद्रव्याद्यपेक्षया परस्य तु परद्रव्याद्यपेक्षयाऽन्यस्य तु यौगपद्येन स्वपरद्रव्याद्यपेक्षया पञ्चममध्ययन अनाचारविवक्षितत्वात्स्यादस्ति च नास्ति चावक्तव्यं चेति, इयं च सप्तभङ्गी यथायोगमुत्तरत्रापि योजनीयेति // 10-11 // 712-8 श्रुतम्, 713 // तदेवं सामान्येन सर्वस्यैव वस्तुनो भेदाभेदौ प्रतिपाद्याधुना सर्वशून्यवादिमतनिरासेन लोकालोकयोः प्रविभागेनास्तित्वं सूत्रम् 12-13 (714-715) प्रतिपादयितुकाम आह- यदिवा सर्वत्र वीर्यमस्ति नास्ति सर्वत्र वीर्य मित्यनेन सामान्येन वस्त्वस्तित्वमुक्तम्, तथाहि- सर्वत्र / लोकालोकवस्तुनो वीर्यं शक्तिरर्थक्रियासामर्थ्यमन्तशः स्वविषयज्ञानोत्पादनम्, तच्चैकान्तेनात्यन्ताभावाच्छशविषाणादेरप्यस्तीत्येवं संज्ञा स्वरूप: न निवेशयेत्, सर्वत्र वीर्यं नास्तीति नो एवं संज्ञां निवेशयेदिति,अनेनाविशिष्टं वस्त्वस्तित्वं प्रसाधितम्, इदानीं तस्यैव वस्तुन ईषद्विशेषितत्वेन लोकालोकरूपतयाऽस्तित्वं प्रसाधयन्नाह णत्थि लोए अलोए वा, णेवं सन्नं निवेसए। अत्थि लोए अलोएवा, एवं सन्नं निवेसए। सूत्रम् 12 / / ( / / 714 // ) ___णत्थि जीवा अजीवा वा, णेवं सन्नं निवेसए। अत्थि जीवा अजीवा वा, एवं सन्नं निवेसए॥ सूत्रम् 13 // ( // 715 // ) लोकः चतुर्दशरज्वात्मको धर्माधर्माकाशादिपञ्चास्तिकायात्मको वास नास्तीत्येवं संज्ञां नो निवेशयेत् / तथाऽऽकाशास्तिकायमात्रकस्त्वलोकः स च न विद्यते एवेत्येवं संज्ञा नो निवेशयेत् / तद्भावप्रतिपत्तिनिबन्धनं त्विदम्, तद्यथा- प्रतिभासमानं वस्त्ववयवद्वारेण वा प्रतिभासेतावयविद्वारेण वा?, तत्र न तावदवयवद्वारेण प्रतिभासनमुपपद्यते, निरंशपरमाणूनां प्रति // 693 // ®तु सामस्त्येन स्वद्रव्याद्यपेक्षया विवक्षितत्वा स्यान्नास्ति चावक्त० (मु०)। 0 धैं मनसः प्र०। 0 भावाभावा प्र०। 0 सर्वत्र वीर्यमित्येवंरूपाम्। GO मुत्पद्यते (मु०)।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy