SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः२ पञ्चममध्ययन अनाचारश्रुतम्, सूत्रम् 10-11 (712-713) वागनाचारम श्रीसूत्रकृताङ्ग मोक्षाभावतया कृतनाशोऽकृताभ्यागमश्च बलादापतति, यच्चैतत् सत्त्वरजस्तमसांसाम्यावस्था प्रकृतिः प्रधानमित्येतत्सर्वस्यास्य नियुक्ति जगतः कारणं तन्निरन्तराः सुहृदः प्रत्येष्यन्ति, नियुक्तिकत्वाद्, अपिच-सर्वथा सर्वस्य वस्तुन एकत्वेऽभ्युपगम्यमाने सत्त्वरश्रीशीला० वृत्तियुतम् जस्तमसामप्येकत्वं स्यात्, तद्भेदे च सर्वस्य तद्वदेव भेद इति / तथा यदप्युच्यते-'सर्वस्य व्यक्तस्य प्रधानकार्यत्वात्सत्कार्यवादाच्च श्रुतस्कन्धः२ मयूराण्डकरणे चथुपिच्छादीनां सतामेवोत्पादाभ्युपगमाद् असदुत्पादे चाम्रफलादीनामप्युत्पत्तिप्रसङ्गा' दित्येतद्वामात्रम्, // 692 // तथाहि-यदि सर्वथा कारणे कार्यमस्ति न त त्पादो निष्पन्नघटस्येव, अपिच मृत्पिण्डावस्थायामेव घटगताः कर्मगुणव्यपदेशा भवेयुः, न च भवन्ति, ततो नास्ति कारणे कार्यम्, अथानभिव्यक्तमस्तीति चेन्न तर्हि सर्वात्मना विद्यते, नाप्येकान्तेनासत्कार्यवाद एव, तद्भावे हि व्योमारविन्दानामप्येकान्तेनासतांमृत्पिण्डादेर्घटादेरिवोत्पत्तिः स्यात्, न चैतदृष्टमिष्टं वा, अपिचएवं सर्वस्य सर्वस्मादुत्पत्तेः कार्यकारणभावानियमः स्याद्, एवं चन शाल्यार्थी शालीबीजमेवादद्याद् अपितु यत्किञ्चिदेवेति, नियमेन च प्रेक्षापूर्वकारिणामुपादानकारणादौ प्रवृत्तिः, अतोनासत्कार्यवाद इति / तदेवं सर्वपदार्थानां सत्त्वज्ञेयत्वप्रमेयत्वादिभिर्धर्मः कथञ्चिदेकत्वं तथा प्रतिनियमतार्थकार्यतया यदेवार्थक्रियाकारि तदेव परमार्थतः सदितिकृत्वा कथञ्चिद्भेद इति सामान्यविशेषात्मकं वस्त्विति स्थितम् / अनेन च स्यादस्ति स्यान्नास्तीतिभङ्गकद्वयेन शेषभङ्गका अपि द्रष्टव्याः, ततश्च सर्व वस्तुसप्तभङ्गीस्वभावम्, ते चामी-स्वद्रव्यक्षेत्रकालभावापेक्षयास्यादस्ति, परद्रव्याद्यपेक्षयास्यान्नास्ति, अनयोरेव धर्मयोयोगपद्येनाभिधातुमशक्यत्वात्स्यादवक्तव्यम्, तथा कस्यचिदंशस्य स्वद्रव्याद्यपेक्षया विवक्षितत्वात्कस्यचिच्चांशस्य / परद्रव्याद्यपेक्षया विवक्षितत्वात्स्यादस्ति च नास्ति चेति, तथैकस्यांशस्यस्वद्रव्याद्यपेक्षया परस्य तु सामस्त्येन स्वपरद्रव्याद्य 0 दस्ति च स्यान्नास्ति चेति (मु०)। // 692 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy