SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 691 // श्रुतस्कन्ध:२ पञ्चममध्ययनं अनाचारश्रुतम्, सूत्रम् 10-11 (712-713) वागनाचारम् सह युगपदुपलब्धेः कस्यचिदेकत्वाऽऽशङ्का स्यादतस्तदपनोदार्थं तदभिप्रायमाह- तदेव तद् यदेवौदारिकं शरीरं ते एव तैजसकार्मणे शरीरे, एवं वैक्रियाहारकयोरपि वाच्यम्, तदेवंभूतां संज्ञांनो निवेशयेदित्युत्तरश्लोके क्रिया, तथैतेषामात्यन्तिको भेद इत्येवंभूतामपि संज्ञांनो निवेशयेत् / युक्तिश्चात्र- यद्येकान्तेनाभेद एव तत इदमौदारिकमुदारपुद्गलनिष्पन्नं तथैतत्कर्मणा निर्वर्तितं कार्मणं सर्वस्यैतस्य संसारचक्रवालभ्रमणस्य कारणभूतं तेजोद्रव्यैर्निष्पन्नं तेज एव तैजसं आहारपक्तिनिमित्तं तैजसलब्धिनिमित्तं चेत्येवं भेदेन संज्ञा निरुक्तं कार्यं च न स्यात् / अथात्यन्तिको भेद एव ततो घटवद्भिन्नयोर्देशकालयोरप्युप-8 लब्धिः स्यात्, न नियता युगपदुपलब्धिरिति, एवं च व्यवस्थिते कथञ्चिदेकोपलब्धेरभेदः कथञ्चिच्च संज्ञाभेदाढ़ेद इति स्थितम् / तदेवमौदारिकादीनां शरीराणां भेदाभेदौ प्रदाधुना सर्वस्यैव द्रव्यस्य भेदाभेदौ प्रदर्शयितुकामः पूर्वपक्षं श्लोकपश्चार्द्धन दर्शयितुमाह-सव्वत्थवीरिय मित्यादि, सर्वं सर्वत्र विद्यत इतिकृत्वा सांख्याभिप्रायेण सत्त्वरजस्तमोरूपस्य प्रधानस्यैकत्वात्तस्य च सर्वस्यैव कारणत्वात्, अतः सर्वंसर्वात्मकमित्येवं व्यवस्थिते सर्वत्र घटपटादौ अपरस्य-व्यक्तस्य वीर्यशक्तिर्विद्यते, सर्वस्यैव हि व्यक्तस्य प्रधानकार्यत्वात्कार्यकारणयोश्चैकत्वाद्, अतः सर्वस्य वीर्यमस्तीत्येवं संज्ञांनो निवेशयेत्, तथा सर्वे भावा:स्वभावेन, स्वस्वभावव्यवस्थिता' इति प्रतिनियतशक्तित्वान्न सर्वत्र सर्वस्य वीर्यं शक्तिरित्येवमपि संज्ञांनो निवेशयेत् / युक्तिश्चात्र-यत्तावदुच्यते 'सांख्याभिप्रायेण सर्वसर्वात्मकं देशकालाकारप्रतिबन्धात्तुन समानकालोपलब्धि'रिति, तदयुक्तम्, यतो भेदेन सुखदुःखजीवितमरणदूरासन्नसूक्ष्मबादरसुरूपकुरूपादिकं संसारवैचित्र्यमध्यक्षेणानुभूयते, न च दृष्टेऽनुपपन्नं नाम, न च सर्वं मिथ्येत्यभ्युपपत्तुं युज्यते, यतो दृष्टहानिरदृष्टकल्पना च पापीयसी। किंच-सर्वथैक्येऽभ्युपगम्यमाने संसार8 (r) औदारिककार्यस्य धर्माधर्मार्जनमुक्त्यवाप्त्यादेः प्रसिद्धत्वान्न निर्देशः। ॐ कार्यस्य। 0 शक्तयः। 0 स्वरूपेण / स्वस्वाधारपदार्थेषु / 0 पपन्नं प्र०। // 691 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy