SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 690 // श्रुतस्कन्धः२ पञ्चममध्ययनं अनाचारश्रुतम्, सूत्रम् 10-11 (712-713) वागनाच स्याद्वादः प्रतिपाद्यत इत्याह- आभ्यां द्वाभ्यां स्थानाभ्यामाश्रिताभ्यामनयोर्वा स्थानयोराधाकर्मोपभोगेन कर्मबन्धभावाभावभूतयोर्व्यवहारो न विद्यते, तथाहि- यद्यवश्यमाधाकर्मोपभोगेनैकान्तेन कर्मबन्धोऽभ्युपगम्येत एवं चाहाराभावेनापि क्वचित्सुतरामनर्थोदयः स्यात् तथाहि- क्षुत्प्रपीडितो न सम्यगीर्यापथं शोधयेत् ततश्च वजन् प्राण्युपमर्दमपि कुर्यात् मूर्छादिसद्भावतया च देहपाते सत्यवश्यंभावी त्रसादिव्याघातोऽकालमरणे चाविरतिरङ्गीकृता भवत्यार्तघ्यानापत्तौ च / तिर्यग्गतिरिति, आगमश्च-सव्वत्थ संजमं संजमाओ अप्पाणमेव रक्खेज्जा इत्यादिनाऽपि तदुपभोगे कर्मबन्धाभाव इति, तथाहिआधाकर्मणि निष्पाद्यमानेषड्जीवनिकायवधस्तद्वधे च प्रतीतः कर्मबन्ध इत्यतोऽनयोः स्थानयोरेकान्तेनाश्रीयमाणयोर्व्यवहरणं व्यवहारोन युज्यते, तथाऽऽभ्यामेव स्थानाभ्यां समाश्रिताभ्यां सर्वमनाचारं विजानीयादिति स्थितम्॥९॥७११॥पुनरप्यन्यथा दर्शनं प्रति वागनाचारं दर्शयितुमाह जमिदं ओरालमाहारं, कम्मगं च तहेव य (तमेव तं)। सव्वत्थ वीरियं अत्थि, णत्थि सव्वत्थ वीरियं ॥सूत्रम् 10 // ( // 712 // ) __ एएहिं दोहिं ठाणेहिं, ववहारोण विजई। एएहिंदोहिं ठाणेहिं, अणायारंतु जाणए। सूत्रम् 11 // ( // 713 // ) यदिवा योऽयमनन्तरमाहारः प्रदर्शितः स सति शरीरे भवति शरीरं च पञ्चधा तस्य चौदारिकादेः शरीरस्य भेदाभेदं प्रतिपादयितुकामः पूर्वपक्षद्वारेणाह- जमिद मित्यादि, यदिदं- सर्वजनप्रत्यक्षमुदारैः पुद्गलैर्निर्वृत्तमौदारिकमेतदेवोरालं निस्सारत्वाद् एतच्च तिर्यअनुष्याणां भवति तथा-चतुर्दशपूर्वविदा क्वचित्संशयादावाह्रियत इत्याहारम्, एतद्हणाच्च वैक्रियोपादानमपि द्रष्टव्यम्, तथा कर्मणा निर्वृत्तं कार्मणम्, एतत्सहचरितं तैजसमपि ग्राह्यम् / औदारिकवैक्रियाहारकाणांप्रत्येकं तैजसकार्मणाभ्यां ®सर्वत्र संयम संयमादात्मानमेव रक्षेत्। ७०कर्मण्यपि (मु०)। // 690 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy