SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृता नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 | // 689 // श्रुतस्कन्धः२ पञ्चममध्ययनं अनाचारश्रुतम्, सूत्रम् 8-9 (710-711) अनाचाराचारौ वियोजीकरणं तु हिंसा॥१॥ इत्यादि। अपिच भावसव्यपेक्षस्यैव कर्मबन्धोऽभ्युपेतुं युक्तः, तथाहि- वैद्यस्यागमसव्यपेक्षस्य सम्यक् क्रियां कुर्वतो यद्यप्यातुरविपत्तिर्भवति तथापि न वैरानुषङ्गो भावदोषाभावाद्, अपरस्य तु सर्पबुद्ध्या रज्जुमपि घ्नतो भावदोषात्कर्मबन्धः, तद्रहितस्य तु न बन्ध इति, उक्तं चागमे उच्चालियम पाए इत्यादि, तण्डुलमत्स्याख्यानकं तु सुप्रसिद्धमेव // तदेवंविधवध्यवधकभावापेक्षया स्यात् सदृशत्वं स्यादसदृशत्वमिति, अन्यथाऽनाचार इति // 7 // 709 // पुनरपि चारित्रमधिकृत्याहारविषयानाचाराचारौ प्रतिपादयितुकाम आह अहाकम्माणि भुंजंति, अण्णमण्णे सकम्मुणा / उवलित्तेति जाणिज्जा, अणुवलित्तेति वा पुणो॥सूत्रम् 8 // 710 // एएहिं दोहिं ठाणेहिं, ववहारोण विजई। एएहिं दोहिं ठाणेहिं, अणायारंतु जाणए। सूत्रम् 9 // 711 // साधुं प्रधानकारणमाधाय - आश्रित्य कर्माण्याधाकर्माणि, तानि च वस्त्रभोजनवसत्यादीन्युच्यन्ते, एतान्याधाकर्माणि ये भुञ्जन्ते- एतैरुपभोगं ये कुर्वन्ति अन्योऽन्यं परस्परं तान् स्वकीयेन कर्मणोपलिप्तान विजानीयादित्येवं नो वदेत, तथाऽनुपलिप्तानिति वानोवदेत्, एतदुक्तं भवति-आधाकर्मापि श्रुतोपदेशेन शुद्धमिति कृत्वा भुजानः कर्मणानोपलिप्यते, तदाधाकर्मोपभोगेना-8 वश्यतया कर्मबन्धो भवतीत्येवं नो वदेत्, तथा श्रुतोपदेशमन्तरेणाहारगृद्ध्याऽऽधाकर्म भुञानस्य तन्निमित्तकर्मबन्धसद्भावात् / अतोऽनुलिप्तानपिनो वदेत्, यथावस्थितमौनीन्द्रागमज्ञस्य त्वेवं युज्यते वक्तुं- आधाकर्मोपभोगेन स्यात्कर्मबन्धः स्यानेति, यत उक्तं-किंचिच्छुद्धं कल्प्यमकल्प्यं वा स्यादकल्प्यमपि कल्प्यम् / पिण्डः शय्या वस्त्रं पात्रं वा भेषजाद्यं वा॥१॥तथाऽन्यैरप्यभिहितंउत्पद्येत हि साऽवस्था, देशकालामयान्प्रति / यस्यामकार्यं कार्यं स्यात्कर्म कार्यं च वर्जयेद् // 1 // इत्यादि॥८॥७१०॥ किमित्येवं (r) भवेदोषा० प्र० 1 0 शास्त्रप्रसिद्धत्वात्पूर्वं व्यतिरेकिणं प्रदर्श्य अन्वयी एष कर्मबन्ध इति। 0 भावदोषरहितस्य। 0 उच्चालिते पादे। 7 मादाय प्र०। // 6/ 2 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy