________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 489 // श्रुतस्कन्धः२ प्रथममध्ययन पौण्डरीकम्, // अहम् / / ॥श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-२-ग्रन्थाङ्कः-२/२॥ ॥प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः // ऐं नमः // चरमतीर्थपति-श्रीमहावीरस्वामिने नमः॥ ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ // तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः॥ श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविहितविवरणसमन्वितं श्रीसूत्रकृताङ्गसूत्रम्। द्वितीय : श्रुतस्कन्धः // नमः श्रीवीतरागाय // ॥अथ प्रथममध्ययनं पौण्डरीकाख्यम्॥ प्रथमश्रुतस्कन्धानन्तरं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरश्रुतस्कन्धे योऽर्थः समासतोऽभिहितः असावेवानेन श्रुतस्कन्धेन सोपपत्तिको व्यासेनाभिधीयते, त एव विधयः सुसंगृहीता भवन्ति येषां समासव्यासाभ्यामभिBधानमिति, यदिवा पूर्वश्रुतस्कन्धोक्त एवार्थोऽनेन दृष्टान्तद्वारेण सुखावगमार्थं प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्य // 489 //