________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 686 // श्रुतस्कन्धः 2 पञ्चममध्ययन अनाचारश्रुतम्, सूत्रम् 4-5 (706-707) अनाचारप्रतिवद्देः यास्यन्ति, केते?- शास्तार:- तीर्थकृतः सर्वज्ञास्तच्छासनप्रतिपन्ना वा सर्वे निरवशेषाः सिद्धिगमनयोग्या भव्याः, ततश्चोच्छिन्नभव्यं जगत्स्यादिति, शुष्कतर्काभिमानग्रहगृहीता युक्तिं चाभिदधति- जीवसद्भावे सत्यप्यपूर्वोत्पादाभावादभव्यस्य च सिद्धिगमनासंभवात्कालस्य चाऽऽनन्त्यादनारतं सिद्धिगमनसंभवेन तव्ययोपपत्तेरपूर्वायाभावाद्भव्योच्छेद इत्येवं नो वदेत्, तथा सर्वेऽपि प्राणिनो जन्तवः अनीशा विसदृशाः सदा परस्परविलक्षणा एव,' कथञ्चित्तेषां सादृश्यमस्तीत्येवमप्येकान्तेन नो वदेत् यदिवा- सर्वेषां भव्यानां सिद्धिसद्भावेऽवशिष्टाः संसारे अनीशा अभव्या एव भवेयुरित्येवं च नो वदेत्, युक्तिं चोत्तरत्र वक्ष्यति / तथा कर्मात्मको ग्रन्थो येषां विद्यते ते ग्रन्थिकाः, सर्वेऽपि प्राणिनः कर्मग्रन्थोपेता एव भविष्यन्तीत्येवमपि नो वदेत्, इदमुक्तं भवति- सर्वेऽपि प्राणिनः सेत्स्यन्त्येव कर्मावृता वा सर्वे भविष्यन्तीत्येवमेकमपि पक्षमेकान्तिकं नो वदेत् / यदिवा- ग्रन्थिका इति ग्रन्थिकसत्त्वा भविष्यन्तीति, ग्रन्थिभेदं कर्तुमसमर्था भविष्यन्तीत्येवं च नो वदेत, तथा शाश्वता इति शास्तारः सदा सर्वकालं स्थायिनस्तीर्थकरा भविष्यन्ति न समुच्छेस्यन्तिनोच्छेदं यास्यन्तीत्येवं नो वदेदिति // 4 // 706 // तदेवं दर्शनाचारवादनिषेध वाङ्मात्रेण प्रदाधुना युक्तिं दर्शयितुकाम आह- एतयोः अनन्तरोक्तयोर्द्वयोः स्थानयोः, तद्यथा-2 शास्तारः क्षयं यास्यन्तीति शाश्वता वा भविष्यन्तीति, यदिवा सर्वे शास्तारस्तद्दर्शनप्रतिपन्ना वा सेत्स्यन्ति शाश्वता वा भविष्यन्ति, यदिवा सर्वे प्राणिनो ह्यनीदृशाः-विसदृशाः सदृशावा, तथा ग्रन्थिकसत्त्वास्तद्रहिता वा भविष्यन्तीत्येवमनयोः स्थानयोर्व्यवहरणं व्यवहारस्तदस्तित्वे युक्तेरभावान्न विद्यते, तथाहि-यत्तावदुक्तं सर्वेशास्तारः क्षयं यास्यन्ति एवेत्येतदयुक्तम्, क्षयनिबन्धनस्य कर्मणोऽभावात्सिद्धानां क्षयाभावः, अथ भवस्थकेवल्यपेक्षयेदमभिधीयते, तदप्यनुपपन्नम्, यतोऽनाद्य© दर्शनानाचारवादनिषेधं प्र० 1 0 दर्शनाचारविषये वादस्य निषेधं। 0 यास्यन्तीत्येत० (मु०)।