SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताई नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 685 // स्थिरैकस्वभावं सर्वं नित्यमित्येवं न व्यवह्रियते, प्रत्यक्षेणैव नवपुराणादिभावेन प्रध्वंसाभावेन वा दर्शनात्, तथैव च लोकस्य / श्रुतस्कन्ध:२ प्रवृत्तेः, आमुष्मिकेऽपि नित्यत्वादात्मनो बन्ध मोक्षाद्यभावेन दीक्षायमनियमादिकमनर्थकमिति न व्यवह्रियते। तथैकान्ता पञ्चममध्ययनं अनाचारनित्यत्वेऽपि लोको धनधान्यघटपटादिकमनागतभोगार्थं न संगृह्णीयात्, तथाऽऽमुष्मिकेऽपि क्षणिकत्वादात्मनः प्रवृत्तिन श्रुतम्, स्यात्, तथा च दीक्षाविहारादिकमनर्थकम्, तस्मानित्यानित्यात्मके एव स्याद्वादे सर्वव्यवहारप्रवृत्तिः, अत एव तयोर्नित्या- सूत्रम् 2-3 (704-705) नित्ययोः स्थानयोरेकान्तत्वेन समाश्रीयमाणयोरैहिकामुष्मिककार्यविध्वंसरूपमनाचारं मौनीन्द्रागमबाह्यरूपं विजानीयात्, तुशब्दो विशेषणार्थः, कथञ्चिन्नित्यानित्ये वस्तुनि सति व्यवहारो युज्यत इत्येतद्विशिनष्टि, तथाहि-सामान्यमन्वयिनमंश-सूत्रम् 4-5 (706-707) माश्रित्य स्यान्नित्यमिति भवति, तथा विशेषांशंप्रतिक्षणमन्यथा च अन्यथा च नवपुराणादिदर्शनतः स्यादनित्य इति भवति, अनाचारतथोत्पादव्ययध्रौव्याणि चार्हद्दर्शनाश्रितानि व्यवहाराङ्गं भवति / तथा चोक्तं- घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वयम्। प्रतिषः शोकप्रमोदमाध्यस्थ्य, जनो याति सहेतुकम्॥१॥ इत्यादि। तदेवं नित्यानित्यपक्षयोर्व्यवहारो न विद्यते, तथाऽनयोरेवानाचार विजानीयादिति स्थितम् // 3 // 705 // तथाऽन्यमप्यनाचारं प्रतिषे काम आह समुच्छिहिंति सत्थारो, सव्वे पाणा अणेलिसा। गंठिगा वा भविस्संति, सासयंति वणो वए।सूत्रम् 4 // ( // 706 // ) एएहिं दोहिं ठाणेहिं, ववहारोण विज्जइ / एएहिं दोहिं ठाणेहिं, अणायारंतु जाणए॥सूत्रम् 5 // ( / / 707 // ) सम्यक्-निरवशेषतया उच्छेत्स्यन्ति उच्छेदं यास्यन्ति-क्षयं प्राप्स्यन्ति सामस्त्येनोत्- प्राबल्येन सेत्स्यन्ति वा सिद्धिं 0 प्रध्वंसरूपोऽभावः, तेन तद्रूपेणेत्यर्थः, ईर्यया साधुरितिवद् प्रकृत्या चार्वितिवद्वा तृतीया। (c) अनर्थकतया निवृत्तिरूपफलदतया। 0 सामान्यांशापेक्षया नपुं० 0 भवन्ति (प्र०)। 9 विशेषांशापेक्षया पुंस्त्वम् / 0 भवन्ति (विधेयतोत्पादादीनां) प्र०। // 685 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy