SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ श्रतस्कन्थः 2 श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 683 // पश्चममध्ययन अनाचारश्रुतम्, सूत्रम् (703) |अनाचारस्य अनाचरणम् वर्जयन्नाचारवान् भवति न चानाचारदोषैर्युज्यत इत्यतस्तत्प्रतिषेधार्थमाह- एतस्य अनाचारस्य सर्वदोषास्पदस्य दुर्गतिगमनैकहेतोः प्रतिषेधो निराकरणं सदाचारप्रतिपत्त्यर्थं इह- अध्ययने ज्ञातव्यः, स च परमार्थतोऽनगारकारणमिति, ततःकेषांचिन्मतेनैतस्याध्ययनस्यानगारश्रुतमित्येतन्नाम भवतीति॥१८१-१८३ ॥गतो नामनिष्पन्नोः निक्षेपः, तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं आदाय बंभचेरंच, आसुपन्ने इमं वइं। अस्सिंधम्मे अणायारं, नायरेज कयाइवि // सूत्रम् 1 // ( // 703 // ) अस्य चानन्तरपरम्परसूत्रः सम्बन्धोः वाच्यः, तत्रानन्तरसूत्रेण सहायं- एकान्तपण्डितो भवति, कथं?- आदाय ब्रह्मचर्य मिति, परम्परसूत्रसम्बन्धस्त्वयं- 'बुध्येत तथा त्रोटयेद् बन्धनं ' किं कृत्वेत्याह- आदाय ब्रह्मचर्यमिति, एवमन्यैरपि सूत्रैः सम्बन्धो वाच्यः, अर्थस्त्वयं-'आदाय' गृहीत्वा, किंतद्?, ब्रह्मचर्य-सत्यतपोभूतदयेन्द्रियनिरोधलक्षणं तच्चर्यते- अनुष्ठीयते यस्मिन् तन्मौनीन्द्रं प्रवचनं ब्रह्मचर्यमित्युच्यते तदादाय आशुप्रज्ञः पटुप्रज्ञः सदसद्विवेकज्ञः, क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षित्वात्तामाह- इमां समस्ताध्ययनेनाभिधीयमानां प्रत्यक्षासन्नभूतां वाचं- 'इदं शाश्वतमेवे' त्यादिकां कदाचिदपि नाचरेत् नाभिदध्यात्, तथाऽस्मिन्धर्मे-सर्वज्ञप्रणीते व्यवस्थितः सन्ननाचार-सावधानुष्ठानरूपं न समाचरेत् न विदध्यादिति सम्बन्धः, यदिवाऽऽशुप्रज्ञः- सर्वज्ञः प्रतिसमयं केवलज्ञानदर्शनोपयोगित्वात्तत्सम्बन्धिनि धर्मे व्यवस्थितः इमांवक्ष्यमाणांवाचं अनाचार च कदाचिदपि नाचरेदितिश्लोकार्थः॥१॥७०३।। तत्रानाचारं नाचरेदित्युक्तम्, अनाचारश्च मौनीन्द्रप्रवचनादपरोऽभिधीयते, मौनीन्द्रप्रवचनं तु मोक्षमार्गहेतुतया सम्यग्दर्शनज्ञानचारित्रात्मकम्, सम्यग्दर्शनं तु तत्त्वार्थश्रद्धानरूपम्, तत्त्वं तु जीवाजीवपुण्यपापाश्रवबन्धसंवरनिर्जरामोक्षात्मकम्, तथा धर्माधर्माकाशपुद्गलजीवकालात्मकंच द्रव्यं नित्यानित्यस्वभावम्, सामान्य // 68
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy