SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 682 // अनाचारश्रुतम्, आचार // अथ पञ्चममध्ययनं अनाचारश्रुताख्यम् // श्रुतस्कन्धः 2 साम्प्रतं पञ्चममारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने प्रत्याख्यानक्रियोक्ता, सा चाचारव्यवस्थितस्य सतो पञ्चममध्ययन भवतीत्यतस्तदनन्तरमाचारश्रुताध्ययनमभिधीयते, यदिवाऽनाचारपरिवर्जनेन सम्यक् प्रत्याख्यानमस्खलितं भवतीत्यतोनाचारश्रुताध्ययनमभिधीयते, यदिवा प्रत्याख्यानयुक्तः सन्नाचारवान् भवतीत्यतःप्रत्याख्यानक्रियाऽनन्तरमाचारश्रुताध्ययन नियुक्तिः 181-183 तत्प्रतिपक्षभूतमनाचारश्रुताध्ययनंवा प्रतिपाद्यत इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति / तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा-अनाचारं प्रतिषिध्य साधूनामाचारः प्रतिपाद्यते, नामनिष्पन्नेतु निक्षेपे निक्षेपादिः आचारश्रुतमिति द्विपदं नाम, तदनयोर्निक्षेपार्थं नियुक्तिकृदाह नि०-णामंठवणायारे दव्वे भावे य होति नायव्वो। एमेव य सुत्तस्सा निक्खेवो चउविहो होति // 181 // नि०- आयारसुयं भणियं वजेयव्वा सया अणायारा / अबहुसुयस्स हु होज विराहणा इत्थ जइयव्वं // 182 // नि०- एयस्स उ पडिसेहो इहमज्झयणमि होति नायव्वो। तो अणगारसुयंति य होई नामंतु एयस्स // 183 // __ तत्राचारो नामस्थापनाद्रव्यभावभेदभिन्नश्चतुर्धा द्रष्टव्यः, एवं श्रुतमपीति। तत्राचारश्रुतयोरन्यत्राभिहितयोर्लाघवार्थमतिदेशं कुर्वन्नाह- आचारश्च श्रुतं च आचारश्रुतं द्वन्द्वैकवद्भावस्तदुभयमपि भणितं उक्तम्, तत्राचारः क्षुल्लिकाचारकथायामभिहितः श्रुतं तु विनयश्रुते, भावार्थस्तु वर्जयितव्याः परिहार्याः सदा सर्वकालं यावज्जीवं साधुनाऽनाचाराः, तांश्च अबहुश्रुतः अगीतार्थो / 8 // 682 // न सम्यग् जानातीत्यतस्तस्य विराधना भवेत्, हुशब्दोऽवधारणे, अबहुश्रुतस्यैव विराधना न गीतार्थस्येत्यतः अत्र सदाचारे तत्परिज्ञाने च यतितव्यम्, यथा हि मार्गज्ञः पथिकः कुमार्गवर्जनेन नापथगामी भवति न चोन्मार्गदोषैर्युज्यते एवमनाचारं
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy