SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 678 // कारयितुंन कुर्वन्तमनुमन्तुंवा प्रवृत्तिरस्ति, ते चाहर्निशममित्रभूता मिथ्यासंस्थिता नित्यं प्रशठव्यतिपातचित्तदण्डादुःखोत्पादन श्रुतस्कन्धः२ यावत्परितापनपरिक्लेशादेप्रतिविरता असंज्ञिनोऽपिसन्तोऽहर्निशंसर्वकालमेव प्राणातिपाते कर्तव्ये तद्योग्यतया तदसंप्राप्तावपि चतुर्थमध्ययनं प्रत्याख्यान, ग्रामघातकवदुपाख्यायन्ते यावन्मिथ्यादर्शनशल्य उपाख्यायन्त इति, उपाख्यानं चासंज्ञिनोऽपि योग्यतया पापकर्मानिवृत्तेरित्य-8 सूत्रम् 65-66 भिप्रायः। तदेवं दर्शिते दृष्टान्तद्वये तत्प्रतिबद्धमेवार्थशेष प्रतिपादयितुं चोद्यं क्रियते, तद्यथा-किमेते सत्त्वाः संज्ञिनोऽसंज्ञिनश्च (700-701) हिंसादिसिद्धिः भव्याभव्यत्ववन्नियतरूपा एवाहोस्वित्संज्ञिनो भूत्वाऽसंज्ञित्वं प्रतिपद्यन्ते असंज्ञिनोऽपि संज्ञित्वमित्येवं चोदिते सत्याहाचार्य:सव्वजोणियावि खलु इत्यादि, यदिवा सन्त्येवंभूता वेदान्तवादिनो य एवं प्रतिपादयन्ति-'पुरुषः पुरुषत्वमश्नुते पशुरपि पशुत्व' मिति, तदत्रापि संज्ञिनः संज्ञिन एव भविष्यन्त्यसंज्ञिनोऽप्यसंज्ञिन इति, तन्मतव्यवच्छेदार्थमाह-सव्वजोणियावी त्यादि, यदिवा किंसंज्ञिनोऽसंज्ञिकर्मबन्धं प्राक्तने सत्येव कर्मणि कुर्वन्ति किंवा नेत्येवमसंज्ञिनोऽपि संज्ञिकर्मबन्धं प्राक्तने सत्येव कुर्वन्त्याहोस्विनेत्येतदाशङ्कयाह-सव्वजोणियावी त्यादि, सर्वा योनयो येषां ते सर्वयोनयः संवृतविवृतोभयशीतोष्णोभयसचित्ताचित्तोभयरूपयोनय इत्यर्थः, ते च नारकतिर्यङ्नरामरा अपिशब्दाद्विशिष्टैकयोनयोऽपि, खल्विति विशेषणे, एतद्विशिनष्टि तज्जन्मापेक्षया सर्वयोनयोऽपि सत्त्वाः पर्याप्त्यपेक्षया यावन्मनःपर्याप्तिन निष्पद्यते तावदसंज्ञिनः करणतःसन्तः पश्चात्संज्ञिनो भवन्त्येकस्मिन्नेव जन्मनि,अन्यजन्मापेक्षया त्वेकेन्द्रियादयोऽपि सन्तः पश्चान्मनुष्यादयो भवन्तीति, तथाभूतकर्मपरिणामात्, न पुनर्भव्याभव्यत्ववत् व्यवस्थानियमो, भव्याभव्यत्वे हि न कर्मायत्ते अतोनानयोर्व्यभिचारः, ये पुनः कर्मवशगास्ते संज्ञिनो भूत्वाऽन्यत्रासंज्ञिनों भवन्त्यसंज्ञिनश्च भूत्वा संज्ञिन इति / वेदान्तवादिमतस्य तु प्रत्यक्षेणैव व्यभिचारः समुपलभ्यते, तद्यथा 0 क्लेशादप्रतिविरता (प्र०)। 0 संज्ञित्वावाप्तौ यद्वद्धं तस्मिन्-वेद्यादिके / यद्वा संज्ञित्वावाप्तिनिमित्ते। 0 न्यत्रसंज्ञिनो (मु०)। // 678 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy