________________ चतुर्थमध्ययन प्रत्याख्यान, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 679 // संजयपि कश्चिन्मूर्छाद्यवस्थायामसंज्ञित्वं प्रतिपद्यते, तदपगमे तु पुनः संज्ञित्वमिति, जन्मान्तरे तु सुतरां व्यभिचार इति। श्रुतस्कन्धः२ तदेवं संज्यसंज्ञिनोः कर्मपरतन्त्रत्वादन्योऽन्यानुगतिरविरुद्धा, यथा प्रतिबुद्धो निद्रोदयात्स्वपिति सुप्तश्च प्रतिबुध्यते इत्येवं स्वापप्रतिबोधयोरन्योऽन्यानुगमनमेवमिहापीति। तत्र प्राक्तनं कर्म यदुदीर्णं यच्च बद्धमास्ते तस्मिन्सत्येव तदविविच्य अपृथक्कृत्य तथाऽविधूय- असमुच्छिद्याऽननुताप्यते चाविविच्यादयश्चत्वारोऽप्येकार्थिका अवस्थाविशेषं वाऽऽश्रित्य भेदेन व्याख्यातव्याः। (700-701) हिंसादिसिद्धिः तदेवमपरित्यक्तप्राक्तनकर्मणोऽसंज्ञिकायात् संज्ञिकायं संक्रामन्ति तथा संज्ञिकायादसंज्ञिकायमिति संज्ञिकायात्संज्ञिकायं असंज्ञिकायादसंज्ञिकायं यथा नारकाः सावशेषकर्माण एव नरकादुद्धृत्य प्रतनुवेदनेषु तिर्यसूत्पद्यन्ते एवं देवाअपि प्रायशस्तत्कर्मशेषतया / शुभस्थानेषूत्पद्यन्ते इत्यवगन्तव्यम्, अत्र च चतुर्भङ्गकसंभवं सूत्रेणैव दर्शयति ।साम्प्रतमध्ययनार्थमुपसंजिघृक्षुः प्राक्प्रतिपन्नमर्थं निगमयन्नाह-जे एते से त्यादि, ये एते सर्वाभिरपि पर्याप्तिभिः पर्याप्ताः लब्ध्या करणेन च तद्विकलाश्चापर्याप्तकाः। (r) अन्योऽन्यसंक्रमभाजः संज्ञिनोऽसंज्ञिनो वा सर्वेऽप्येते मिथ्याचारा अप्रत्याख्यानित्वादित्यभिप्रायः, तथा सर्वजीवेष्वपि नित्यं प्रशठव्यतिपातचित्तदण्डा भवन्तीत्येवंभूताश्च प्राणातिपातायेषु सर्वेष्वप्याश्रवद्वारेषु वर्तन्त इति / तदेवं व्यवस्थिते यत्तदुक्तं चोदकेनतद्यथा-'इहाविद्यमानाशुभयोगसंभवे कथं पापं कर्म बध्यत'इत्येतन्निराकृत्य विरतेरभावात्तद्योग्यतया पापकर्मसद्धावंदर्शयतिएवं खलु इत्यादि एवं उक्तनीत्या खल्ववधारणेऽलङ्कारे वा भगवता तीर्थकृतेत्यादिना यत्प्राक् प्रतिज्ञातं तदनुवदति यावत्पापं च कर्म क्रियत इति / / 65-66 // 700-701 // तदेवमप्रत्याख्यानिनःकर्मसंभवात्तत्संभवाच्च नारकतिर्यङ्नरामरगतिलक्षणं संसारमवगम्य संजातवैराग्यश्चोदक आचार्य प्रति प्रवणचेताः प्रश्नयितुमाह (r) कायमिति तथा नारकाः (प्र०)। (c) जे एते सि णं वा इत्यादि (प्र०)। 0 यदुक्तं (मु०)। // 679 //