________________ श्रीसूत्रकृताङ्ग कारयामीत्येवंभूतोऽध्यवसायोन विद्यते तेषाम् / तदेवं तेऽप्यसंज्ञिनो बालवद्वालाः सर्वेषां प्राणिनां घातनिवृत्तेरभावात्तद्योग्यतया श्रुतस्कन्ध:२ नियुक्तिघातका व्यापादकाः, तथाहि-द्वीन्द्रियादयः परोपघाते प्रवर्तन्ते एव, तद्भक्षणादिना, अनृतभाषणमपि विद्यते तेषामविरतत्वात्, चतुर्थमध्ययनं श्रीशीला० प्रत्याख्यान, वृत्तियुतम् केवलं कर्मपरतन्त्राणां वागभावः, तथाऽदत्तादानमपि तेषामस्त्येव दध्यादिभक्षणात् तथेदमस्मदीयमिदं च पारक्यमित्येवं सूत्रम् 65-66 श्रुतस्कन्धः 2 भूतविचाराभावाच्चेति, तथा तीव्रनपुंसकवेदोदयान्मैथुनाविरतेश्च मैथुनसद्भावोऽपि, तथाऽशनादेः स्थापनात्परिग्रहसद्भावोऽपी- (700-701) // 677 // हिंसादिसिद्धिः इत्येवं क्रोधमानमायालोभा यावन्मिथ्यादर्शनशल्यसद्भावश्च तेषामवगन्तव्यः, तत्सद्भावाच्च ते दिवा रात्रौ वा सुप्ता जाग्रदवस्था / वा नित्यं प्रशठव्यतिपातचित्तदण्डा भवन्ति, तदेव दर्शयितुमाह-तंजहा इत्यादि, ते ह्यसंज्ञिनः क्वचिदपि निवृत्तेरभावात्तत्प्रत्ययिककर्मबन्धोपेता भवन्ति, तद्यथा-प्राणातिपातयावन्मिथ्यादर्शनशल्यवन्तो भवन्ति, तद्वत्तया च यद्यपि ते विशिष्टमनोवाग्व्यापार-3 रहितास्तथापि सर्वेषां प्राणिनां दुःखोत्पादनतया तथा शोचनतया- शोकोत्पादनत्वेन तथा जूरणतया जूरणं- वयोहानिरूपं तत्करणशीलतया तथा त्रिभ्यो- मनोवाक्कायेभ्यः पातनं त्रिपातनं तद्भावस्तया यदिवा तिप्पणयाए त्ति परिदेवनतया तथा पिट्टणयाए त्ति मुष्टिलोष्टादिप्रहारेण तथा परितापनतया बहिरन्तश्च पीडया, ते चासंज्ञिनोऽपि यद्यपि देशकालस्वभावविप्रकृष्टानां नसर्वेषांदुःखमुत्पादयन्ति तथापि विरतेरभावत्तद्योग्यतया दुःखपरितापक्लेशादेरप्रतिविरता भवन्ति, तत्सद्भावाच्च तत्प्रत्ययिकेन कर्मणा बध्यन्ते। तदेवं विप्रकृष्टविषयमपि कर्मबन्धं प्रदोपसंजिहीर्षुराह- इतिरुपप्रदर्शने खलुशब्दो वाक्यालङ्कारे विशेषणे वा, किं विशिनष्टि?-ये इमे पृथिवीकायादयोऽसंज्ञिनः प्राणिनस्तेषां न तर्को न संज्ञान प्रज्ञा न मनो न वाक्न स्वयं कर्तुं नान्येन B O०तथाविध परिताप० (मु०)। 0 मध्यमाध्यवसायवत्त्वात्, चित्तमत्राध्यवसायस्य तादृशस्य वाचकं भावमनोवाचकं वा। 0 संज्ञिसमुच्चयाय। 0 अप्रति-8 विरततासद्भावात्। // 677 //