SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 676 // कर्म चिनोतीति, एवं देशकालस्वभावविप्रकृष्टेष्वपि जन्तुष्वमित्रभूतोऽसौ भवति तत्प्रत्ययिकं च कर्माचिनोतीति, सोऽयं श्रुतस्कन्धः२ संज्ञिदृष्टान्तोऽभिहितः। स च कदाचिदेकमेव पृथिवीकार्य व्यापादयति शेषेषु निवृत्तः कदाचिद्द्यवेवं त्रिकादिकाः संयोगा चतुर्थमध्ययन प्रत्याख्यान, भणनीया यावत्सर्वानपि व्यापादयतीति / स चैवं सर्वेषां व्यापादकत्वेन व्यवस्थाप्यते, सर्वविषयारम्भप्रवृत्तेः, तत्प्रवृत्तिरपि सूत्रम् 65-66 तदनिवृत्तेः, यथा कश्चिद् ग्रामघातादौ प्रवृत्तो यद्यपि च न तेन विवक्षितकाले केचन पुरुषा दृष्टास्तथाऽप्यसौ तत्प्रवृत्ति (700-701) हिंसादिसिद्धिः निवृत्तेरभावात्तद्योग्यतया तद्धातक इत्युच्यते, इत्येवं दार्शन्तिकेऽप्यायोज्यम् ॥संज्ञिदृष्टान्तानन्तरमसंज्ञिदृष्टान्तः प्रागुपन्यस्तः सोऽधुना प्रतिपाद्यते-संज्ञानं संज्ञा सा विद्यते येषां ते संज्ञिनस्तत्प्रतिषेधादसंज्ञिनो मनसो द्रव्यताया अभावात्तीव्रातीव्राध्यवसायविशेषरहिताः प्रसुप्तमत्तमूर्च्छितादिवदिति, ये इमेऽसंज्ञिनः तद्यथा- पृथिवीकायिका यावद्वनस्पतिकायिकाः, तथा षष्ठा अप्येके त्रसाः प्राणिनो विकलेन्द्रिया यावत्संमूर्छिनः पञ्चेन्द्रियाः, ते सर्वेऽप्यसंज्ञिनो येषां नो तर्को विचारो मीमांसा विशिष्टविमर्शो विद्यते यथा कस्यचित्संज्ञिनो मन्दमन्दप्रकाशेस्थाणुपुरुषोचिते देशे किमयं स्थाणुरुत पुरुष इत्येवमात्मक ऊहस्तर्कः संभवति, नैवं तेषामसंज्ञिनां तर्काः संभवन्तीति, तथा संज्ञानं संज्ञा- पूर्वोपलब्धेऽर्थे तदुत्तरकालपर्यालोचना, तथा प्रज्ञानं प्रज्ञा- स्वबुद्ध्योत्प्रेक्षणं स एवायमित्येवंभूतं प्रत्यभिज्ञानं च, तथा मननं मनो- मतिरित्यर्थः, सा चावग्रहादिरूपा, तथा प्रस्पष्टवर्णा वाक् सा च न विद्यते तेषामिति, यद्यपि च द्वीन्द्रियादीनां जिह्वेन्द्रियगलविवरादिकमस्ति तथापि न तेषां प्रस्पष्टवर्णत्वम्, तथा न चैषां पापं हिंसादिकं करोमि कारयामि वेत्येवंभूताध्यवसायपूर्विका वागिति, तथा स्वयं करोम्यन्यैर्वा | // 676 // ©व्यापारयति प्र०।न प्रवृत्तः / 0 उपयोगस्य भावमनोरूपतास्वीकारात्, सचास्ति तेषाम् / ॐ तीव्राः संज्ञिपर्याप्तकस्योत्कटयोगिनः अतीव्रस्तु सूक्ष्मसंपरायाणाम्। O गुणदोषान्वेषणपुरस्सरः।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy