SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 675 // कश्चिदेकः षड्जीवनिकायान् प्रतीत्यैवंभूतां प्रतिज्ञां नियमं कुर्यात्, तद्यथा- अहं षट्सु जीवनिकायेषु मध्ये पृथिवीकायेनैवैकेन / श्रुतस्कन्ध:२ वालुकाशिलोपललवणादिस्वरूपेण कृत्यं कार्यं कुर्याम्, स चैवं कृतप्रतिज्ञस्तेन तस्मिन् तस्मात्तं वा करोति कारयति च, चतुथा प्रत्याख्यान, शेषकायेभ्योऽहं विनिवृत्तः, तस्य च कृतनियमस्यैवंभूतो भवत्यध्यवसायः, तद्यथा- एवं खल्वहं पृथिवीकायेन कृत्यं करोमि सूत्रम् 65-66 कारयामि च, तस्य च सामान्यकृतप्रतिज्ञस्य विशेषाभिसन्धि व भवति, तद्यथा- अमुना कृष्णेनामुना वा श्वेतेन पृथिवीकायेन (700-701) हिंसादिसिद्धिः कार्यं करोमि कारयामिच,स तस्मात्पृथिवीकायादनिवृत्तोऽप्रतिहतप्रत्याख्यातपापकर्मा भवति, तत्र खननस्थाननिषीदनत्वग्वर्तनोच्चारप्रश्रवणादिकरणक्रियासद्भावाद्एवमप्तेजोवायुवनस्पतिष्वपि वाच्यम्, तत्राप्कायेन स्नानपानावगाहनभाण्डोपकरणधावनादिषु उपयोगः, तेजःकायेनापि पचनपाचनवितापनप्रकाशनादिषु, वायुनाऽपि व्यञ्जनतालवृन्तोडुपादिव्यापारादिषु / प्रयोजनम्, वनस्पतिनाऽपि कन्दमूलपुष्पफलपत्रत्वक्शाखाधुपयोगः, एवं विकलेन्द्रियपञ्चेन्द्रियेष्वप्यायोज्यमिति / तथैकः / कश्चित् षट्स्वपि जीवनिकायेषु अविरतः असंयतत्वाच्च तैरसौ कार्यं सावधानुष्ठानं स्वयं करोति कारयति च तत्परैः, तस्य च क्वचिदपि निवृत्तेरभावादेवंभूतोऽध्यवसायो भवति, तद्यथा- एवं खल्वहं षड्भिरपि जीवनिकायैः सामान्येन कृत्यं करोमि, न पुनस्तद्विशेषप्रतिज्ञेति, स च तेषु षट्स्वपि जीवनिकायेष्वसंयतोऽविरतोऽप्रतिहतप्रत्याख्यातपापकर्मा भवति, एवं मृषावादेऽपि वाच्यम्, तद्यथा- इदं मया वक्तव्यमनृतमीहग्भूतं तुन वक्तव्यम्, सच तस्मान्मृषावादादनिवृत्तत्वादसंयूतो भवति, तथाऽदत्तादानमप्याश्रित्य वक्तव्यम्, तद्यथा- इदंमयाऽदत्तादानं ग्राह्यमिदंतुन ग्राह्यमित्येवं मैथुनपरिग्रहेष्वपीति तथा क्रोधमानमाया // 675 // लोभेष्वपिस्वयमभ्यूह्य वाच्यम् / तदेवमसौ हिंसादीन्यकुर्वन्नप्यविरतत्वात्तत्प्रत्ययिकं कर्माश्रवति, यथा चासाविरतिप्रत्ययिक 0 कर्त्तव्याकर्त्तव्यभेदानपेक्ष्य बहुत्वं।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy