________________ य श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 669 // श्रुतस्कन्धः२ चतुर्थमध्ययन प्रत्याख्यान, सूत्रम् 64 (699) दण्डसिद्धिः मीति / तथा राज्ञस्तत्पुत्रस्य वोपरि कुपित एतत्कुर्यादित्याह- खणं णिद्दाय इत्यादि, क्षणं- अवसरं णिद्दाय त्ति प्राप्य लब्ध्वा वध्यस्य पुरे गृहे वा प्रवेक्ष्यामीत्येतदध्यवसायी भवति, तथा क्षणं- अवसरं छिद्रादिकं वध्यस्य लब्ध्वा तदुत्तरकालं हनिष्यामीत्येवं संप्रधारयति, एतदुक्तं भवति-गृहपतेः सामान्यपुरुषस्य राज्ञो वा विशिष्टतमस्य कस्यचिद्वधपरिणतोऽप्यात्मनोऽवसरं लब्ध्वाऽपरकार्यक्षणे सति तथा वध्यस्य च छिद्रमपेक्षमाणस्तदवसरापेक्षी कंचित्कालमुदास्ते, स च तत्रौदासीन्य। कुर्वाणोऽपरकार्य प्रति व्यग्रचेताः संस्तस्मिन्नवसरे वधं प्रत्यस्पष्टविज्ञानो भवति, स चैवंभूतोऽपि यथा तं वध्यं प्रति नित्यमेव प्रशठव्यतिपातचित्तदण्डो भवति, एवमविद्यमानैरपि प्रव्यक्तैरशुभैर्योगैरेकेन्द्रियविकलेन्द्रियादयोऽस्पष्टविज्ञाना अपि मिथ्यात्वाविरतिप्रमादकषाययोगानुगतत्वात्प्राणातिपातादिदोषवन्तो भवन्तीति, न च तेऽवसरमपेक्षमाणा उदासीना अप्यवैरिण इति, एवमस्पष्टविज्ञाना अप्यवैरिणो न भवन्तीति, अत्र च वध्यवधकयोः क्षणापेक्षया चत्वारो भङ्गाः, तद्यथा-वध्यस्यानवसरो 1 वधकस्य च 2 उभयोर्वाऽनवसरो 3 द्वयोरप्यवसर इति 4 / नागार्जुनीयास्तु पठन्ति- अप्पणो अक्खणयाए तस्स वा पुरिसस्स छिदं अलभमाणे णो वहेइ, तं जया मे खणो भविस्सइ तस्स पुरिसस्स छिदं लभिस्सामि तया मे स पुरिसे अवस्सं वहेयव्वे भविस्सइ, एवं मणोपहारेमाणे'त्ति सूत्रं निगदसिद्धम् ॥साम्प्रतमाचार्य एव स्वाभिप्रेतमर्थं परप्रश्नपूर्वकमाविर्भावयन्नाह- से किं नु हु इत्यादि, आचार्यः स्वतो हि निर्णीतार्थोऽसूययाँ परं पृच्छति- किमिति परिप्रश्ने, नुरिति वितर्के हुशब्दो वाक्यालङ्कारे, किमसौ वधकपुरुषोऽवसरापेक्षी छिद्रं अवसरं प्रधारयन् पर्यालोचयन्नहर्निशं सुप्तो जाग्रदवस्थो वा तस्य गृहपते (r) खणंणिं दाय (प्र०)। जिंदाय त्ति (प्र०)। (c) कश्चित्कारणकोपाद्वधपरिणतोऽप्या० (प्र०)। 0 परचित्तस्था याऽसूया-यथार्थेऽयथार्थतोद्भावनरूपा तया 8 हेतुभूतया। 0 परप्रश्ने (मु०)। // 669 //