________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 668 // वाक्यालङ्कारे भगवता वीरवर्द्धमानस्वामिना षड्जीवनिकायाः कर्मबन्धहेतुत्वेनोपन्यस्ताः, तद्यथा- पृथिवीकायिका इत्यादि श्रुतस्कन्धः२ यावत्रसकायिका इति / कथमेते षड्जीवनिकायाः कर्मबन्धस्य कारणमित्याह- इच्चेएहि मित्यादि, इत्येतेषु पृथिव्यादिषु चतुर्थमध्ययनं प्रत्याख्यान, षड्जीवनिकायेषु प्रतिहतं-विनितं प्रत्याख्यातं-नियमितं पापं कर्म येन स तथा, पुनर्नसमासेनाप्रतिहतप्रत्याख्यातपापकर्मा सूत्रम् 64 य आत्मा- जन्तुस्तथा तद्भावत्वादेव नित्यं- सर्वकालं प्रकर्षेण शठः प्रशठस्तथा व्यतिपाते- प्राणव्यपरोपणे चित्तं यस्य स (699) दण्डसिद्धिः व्यतिपातचित्तः स्वपरदण्डहेतुत्वाद्दण्डः प्रशठश्चासौ व्यतिपातचित्तदण्डश्चेति कर्मधारय इति, एतदेव प्रत्येकं दर्शयितुमाह-तं जहे त्यादि, तद्यथा प्राणातिपाते विधेये प्रशठव्यतिपातचित्तदण्डः, एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि वाच्यम्, यावन्मिथ्यादर्शनशल्यमिति / तेषामिहैकेन्द्रियविकलेन्द्रियादीनामनिवृत्तत्वान्मिथ्यात्वाविरतिप्रमादकषाययोगानुगतत्वं द्रष्टव्यम्, तद्भावाच्च ते कथं प्राणातिपातादिदोषवन्तो न भवन्ति, प्राणातिपातादिदोषवत्तया चाव्यक्तविज्ञाना अपि सन्तोऽस्वप्नाद्यवस्थायामपि ते कर्मबन्धका एव / तदेवं व्यवस्थिते यत्प्रागुक्तं परेण यथा- नाव्यक्तविज्ञानानामघ्नताममनस्कानां कर्मबन्ध इत्येतत्प्लवते॥साम्प्रतमाचार्यःस्वपक्षसिद्धये दृष्टान्तमाह- तत्थ खलु भगवयाँ इत्यादि, तत्रेति वाक्योपन्यासार्थः, खलुशब्दो वाक्यालङ्कारे, भगवता-ऐश्वर्यादिगुणोपेतेन चतुस्त्रिंशदतिशयसमन्वितेन तीर्थकृता वधकदृष्टान्तः प्रज्ञप्तः प्ररूपितः, तद्यथा / नाम वधकः कश्चित्स्यादिति, कुतश्चिन्निमित्तात्कुपितः सन् कस्यचिद्वधपरिणतः कश्चित्पुरुषो भवति, यस्यासौ वधकस्तं विशेषेण दर्शयितुमाह- गाहावइस्स वे त्यादि, गृहस्य पतिर्गृहपतिस्तत्पुत्रो वा, अनेन सामान्यतः प्राकृतपुरुषोऽभिहितः, इतस्योपरि कुतश्चिन्निमित्ताद्वधकः कश्चित्संवृत्तः,सच वधपरिणामपरिणतोऽपिकस्मिंश्चित्क्षणे पापकारिणमेनं घातयिष्या भगवया' तत्रेति० (मु०)। (c) योग्येऽवसरे / (c) अपायस्य। // 668 //