SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् // 667 // असंतएण मणेण मित्यादि अविद्यमानेन असता मनसाऽप्रवृत्तेनाशोभनेन तथा वाचा कायेन च पापेनासतातथा सत्त्वानघ्नतः श्रुतस्कन्धः२ तथाऽमनस्कस्याविचारमनोवाक्कायवाक्यस्य स्वप्नमप्यपश्यतः स्वप्नान्तिकं च कर्म नोपचयं यातीत्येवमव्यक्तविज्ञानस्य पापं चतुर्थमध्ययनं प्रत्याख्यान, कर्म न बध्यते, एवंभूतविज्ञानेन पापं कर्म न क्रियत इतियावत्। कस्य हेतोः? केन हेतुना केन कारणेन तत्पापं कर्म बध्यते?, सूत्रम् 64 नात्र कश्चिदव्यक्तविज्ञानत्वात्पापकर्मबन्धहेतुरिति भावः। तदेवं चोदक एव स्वाभिप्रायेण पापकर्मबन्धहेतुमाह-अन्नयरेण (699) दण्डसिद्धिः मित्यादि, कर्माश्रवद्वारभूतैर्मनोवाक्कायकर्मभिः कर्म बध्यत इति दर्शयति-अन्यतरेण क्लिष्टेन प्राणातिपातादिप्रवृत्त्या मनसा वाचा कायेन च तत्प्रत्यधिकं कर्म बध्यत इति, इदमेव स्पष्टतरमाह-घ्नतस्सत्त्वान्समनस्कस्य सविचारमनोवाक्कायवाक्यस्य स्वप्नमपि पश्यतः प्रस्पष्टविज्ञानस्यैतद्गुणजातीयस्य पापं कर्म बध्यते, न पुनरेकेन्द्रियविकलेन्द्रियादेः पापकर्मसंभव इति, तेषां घातकस्य मनोवाक्कायव्यापारस्याभावात्, अथैतव्यापारमन्तरेणापि कर्मबन्ध इष्यते एवं च सति मुक्तानामपि कर्मबन्धः स्यात्, न व्यते, तस्मान्नैवमस्वप्नान्तिकमविज्ञोपचितंच कर्म बध्यत इति, तत्र यदेवंभूतैरेवं मनोवाक्कायव्यापारैः कर्मबन्धोऽभ्यु-3 पगम्यते / तदेवं व्यवस्थिते सति ये ते एवमुक्तवन्तः- तद्यथा- अविद्यमानैरेवाशुभैर्योगैः पापं कर्म क्रियते, मिथ्या त एवमुक्तवन्त / इति स्थितम् / तदेवं चोदकेनाचार्यपक्षं दूषयित्वा स्वपक्षेव्यवस्थापिते सत्याचार्य आह-तत्राचार्यः स्वमतमनूद्य तत्सोपपत्तिकं साधयितुमाह- तंसम्ममित्यादि, यदेतन्मयोक्तं प्राग यथाऽस्पष्टाव्यक्तयोगानामपि कर्म बध्यते तत्सम्यक्-शोभनं युक्तिसंगतमिति, एवमुक्ते पर आह- कस्य हेतोः? केन कारणेन तत्सम्यगिति चेदाह- तत्थ खलु इत्यादि, तत्रेति वाक्योपन्यासार्थं खलुशब्दो Oमनसाऽसतप्रवृ० (त्प्रवृ०) (प्र०)। 0 नोदकस्यैव वाक्यं प्रज्ञापकं प्रति। 0 नोदकपक्षे / 0 यद्येवं० प्र० तस्मादित्यादिवाक्यस्यायं हेतुभूतः स्यात्। 08 स्पष्टविज्ञानयुक्तैः। 0 आचार्यवाक्यमिदं पूर्वपक्षे हेतुदर्शनाय / do // 667 // B
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy