SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृतान नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 662 // 179-180 ॥अथ चतुर्थमध्ययनं प्रत्याख्यानाख्यम् / श्रुतस्कन्धः२ तृतीयाध्ययनानन्तरं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तराध्ययने आहारागुप्तस्य कर्मबन्धोऽभिहितोऽतोऽत्र चतुर्थमध्ययन प्रत्याख्यान, तत्प्रत्याख्यानं प्रतिपाद्यते, यदिवोत्तरगुणसंपादनार्थं शुद्धतराहारविवेकार्थमाहारपरिज्ञोक्ता, सा चोत्तरगुणरूपा प्रत्याख्यान- नियुक्तिः क्रियासमन्वितस्य भवतीत्यत आहारपरिज्ञानन्तरं प्रत्याख्यानक्रियाध्यनयनमारभ्यते इत्यनेन सम्बन्धेनायातस्यास्याध्य प्रत्याख्यान यनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा- इह कर्मोपादानभूतस्याशुभस्य निक्षेपादिः प्रत्याख्यानं प्रतिपाद्यत इति / साम्प्रतं निक्षेपः, तत्राप्योघनिष्पन्नेऽध्ययनं नामनिष्पन्ने प्रत्याख्यानक्रियेति द्विपदं नाम, तत्र प्रत्याख्यानपदनिक्षेपार्थं नियुक्तिकृदाह नि०- णामंठवणादविए अइच्छ पडिसेहए य भावे य / एसो पच्चक्खाणस्स छव्विहो होइ निक्खेवो // 179 / / नि०- मूलगुणेसु य पगयं पच्चक्खाणे इहं अधीगारो। होज्ज हु तप्पच्चइया अप्पच्चक्खाणकिरिया उ॥१८॥ नामस्थापनाद्रव्यादित्साप्रतिषेधभावरूपः प्रत्याख्यानस्यायं षोढा निक्षेपः, तत्रापि नामस्थापने सुगमे, द्रव्यप्रत्याख्यानं तु द्रव्यस्य द्रव्येण द्रव्याद् द्रव्ये द्रव्यभूतस्य वा प्रत्याख्यानं द्रव्यप्रत्याख्यानम्, तत्र सचित्ताचित्तमिश्रभेदस्य द्रव्यस्य प्रत्याख्यानं द्रव्यप्रत्याख्यानम्, द्रव्यनिमित्तं वा प्रत्याख्यानं यथा धम्मिल्लस्य, एवमपराण्यपि कारकाणि स्वधिया योजनीयानि, तथा : दातुमिच्छा दित्सा न दित्सा अदित्सा तया प्रत्याख्यानमदित्साप्रत्याख्यानं- सत्यपि देये सति च संप्रदानकारके केवलं // 662 // दातुर्दातुमिच्छा नास्तीत्यतोऽदित्साप्रत्याख्यानम्, तथा प्रतिषेधप्रत्याख्यानमिदम्, तद्यथा-विवक्षितद्रव्याभावाद्विशिष्टसंप्रदान-1 कारकाभावाद्वा सत्यामपि दित्सायां यः प्रतिषेधस्तत्प्रतिषेधप्रत्याख्यानम्, भावप्रत्याख्यानं तु द्विधा-अन्तःकरणशुद्धस्य साधोः
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy