________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 663 // श्रुतस्कन्धः चतुर्थमध्ययनं प्रत्याख्यान, सूत्रम् 63 (698) अप्रत्याख्यानित्वादिः श्रावकस्य वामूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं चेति, चशब्दादेत द्विविधमपि नोआगमतो भावप्रत्याख्यानं द्रष्टव्यम्, नान्यदिति, साम्प्रतं क्रियापदं निक्षेप्तव्यम्, तच्च क्रियास्थानाध्ययने निक्षिप्तमिति न पुनर्निक्षिप्यते। इह पुनर्भावप्रत्याख्यानेनाधिकार इति दर्शयितुमाह- मूलगुणाः-प्राणातिपातविरमणादयस्तेषु प्रकृतं-अधिकारः प्राणातिपातादेः प्रत्याख्यानं कर्तव्यमितियावत् इह प्रत्याख्यानक्रियाध्ययनेऽर्थाधिकारो, यदि मूलगुणप्रत्याख्यानंन क्रियते ततोऽपायंदर्शयितुमाह-प्रत्याख्यानाभावेऽनियतत्वाद्यत्किञ्चनकारितया तत्प्रत्ययिका- तन्निमित्ता भवेद्- उत्पद्येत अप्रत्याख्यानक्रिया- सावधानुष्ठानक्रिया तत्प्रत्ययिकश्च कर्मबन्धः तन्निमित्तश्च संसार इत्यतः प्रत्याख्यानक्रिया मुमुक्षुणा विधेयेति ॥१७९-१८०॥गतो नामनिष्पन्नो निक्षेपः, अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं सुयं मे आउसंतेणं भगवया एवमक्खायं- इह खलु पच्चक्खाणकिरियाणामज्झयणे, तस्सणं अयमढे पण्णत्ते- आया अपच्चक्खाणी यावि भवति आया अकिरियाकुसले यावि भवति आया मिच्छासंठिए यावि भवति आया एगंतदंडे यावि भवति आया एगंतबाले याविभवति आया एगंतसुत्ते यावि भवति आया अवियारमणवयणकायवक्केयाविभवति आया अप्पडिहयअपच्चक्खायपावकम्मे यावि भवति, एस खलु भगवता अक्खाए असंजते अविरते अप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते, से बाले अवियारमणवयणकायवक्के सुविणमविण पस्सति, पावे यसे कम्मे कज्जइ / / सूत्रम् 63 // ( // 698 // ) अस्य चानन्तरपरम्परसूत्रैः सह सम्बन्धो वक्तव्यः, स चायं- इहानन्तराध्ययनपरिसमाप्ताविदं सूत्रं 'आहारगुप्तः समितः सहितः सदा यतेते' ति एतन्मया श्रुतमायुष्मता भगवतेदमाख्यातम्, एवमनया दिशा परम्परसूत्रैरपि सम्बन्धोऽभ्यूह्यः, इह अस्मिन् प्रवचने सूत्रकृताङ्गे वा खल्वि ति वाक्यालङ्कारे प्रत्याख्यानक्रियानामाध्ययनं तस्यायमर्थो- वक्ष्यमाणलक्षणः, अततीत्यात्मा // 663 //