________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 660 // श्रुतस्कन्धः२ तृतीयमध्ययनं आहारपरिज्ञा, सूत्रम् 62 (697) सवजीवाः प्यालापका उदकगमेन नेतव्या इति॥६१॥६९६॥साम्प्रतं सर्वोपसंहारद्वारेण सर्वजीवान् सामान्यतो विभणिषुराह अहावरं पुरक्खायं सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता णाणाविहजोणिया णाणाविहसंभवा णाणाविहवुक्कमा सरीरजोणिया सरीरसंभवा सरीरवुक्कमा सरीराहारा कम्मोवगा कम्मनियाणा कम्मगतीया कम्मठिइया कम्मणा चेव विप्परियासमुति॥से एवमायाणह से एवमायाणित्ता आहारगुत्ते सहिए समिए सया जए त्तिबेमि / / सूत्रम् 62 // 697 // बियसुयक्खंधस्स आहारपरिणाणाम तईयमज्झयणं समत्तं // अथापरमेतदाख्यातम्, तद्यथा-सर्वे प्राणाः प्राणिनोऽत्र च प्राणिभूतजीवसत्त्वशब्दाः पर्यायत्वेन द्रष्टव्याः, कथञ्चिद्भेदंवाऽऽश्रित्य व्याख्येयाः, ते च नानाविधयोनिका नानाविधासु योनिषूत्पद्यन्ते, नारकतिर्यङ्नरामराणां परस्परगमनसंभवात्, ते च यत्र यत्रोत्पद्यन्ते तत्तच्छरीराहारिणो भवन्ति,तदाहारवन्तश्च तत्रागुप्तास्तवरायातकर्मवशगा नारकतिर्यङ्नरामरगतिषु जघन्यमध्यमोत्कृष्टस्थितयो भवन्ति, अनेनेदमुक्तं भवति- यो यादृगिह भवे स ताहगेवामुत्रापि भवतीत्येतन्निरस्तं भवति, अपितु कर्मोपगाः कर्मनिदानाः कर्मायत्तगतयो भवन्ति, तथा तेनैव कर्मणा सुखलिप्सवोऽपि तद्विपर्यासं- दुःखमुपगच्छन्तीति // 62 // 697 // साम्प्रतमध्ययनार्थमुपसंजिघृक्षुराह- यदेतन्मयाऽऽदितः प्रभृत्युक्तम्, तद्यथा- यो यत्रोत्पद्यते स तच्छरीराहारको भवति आहारागुप्तश्च कर्मादत्ते कर्मणा च नानाविधासु योनिषु अरहट्टयटीन्यायेन पौनःपुन्येन पर्यटतीत्येवमाजानीत यूयम्, एतद्विपर्यास दुःखमुपगच्छन्तीति / एतत्परिज्ञाय च सदसद्विवेक्याहारगुप्तः पञ्चभिः समितिभिः समितो यदिवा सम्यग्ज्ञानादिके ®च्छरीराण्याहारयन्ति (मु०)। ®व्याततत्कर्म (मु०)। 0 विपर्यासे (मु०)। // 660 //