________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 | / / 659 // शेषं सुगमं यावद्भवन्तीत्येवमाख्यातम् / अपरे त्रयोऽप्यालापकाः प्राग्वद् द्रष्टव्या इति ॥साम्प्रतं वायुकायमुद्दिश्याह-अहावर श्रुतस्कन्धः 2 मित्यादि, अथापरमेतदाख्यातमित्याद्यग्निकायगमेन व्याख्येयम् ॥६०॥६९५॥साम्प्रतमशेषजीवाधारं पृथिवीकायमधिकृत्याह तृतीयमध्ययनं आहारपरिज्ञा, अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मनियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सूत्रम् 61 सरीरेसु सचित्तेसु वा अचित्तेसु वा पुढवित्ताए सक्करत्ताए वालुयत्ताए इमाओ गाहाओ अणुगंतव्वाओ- पुढवी य सक्करा वालुया य (696) पृथिवीकायः उवले सिला य लोणूसे / अय तउय तंब सीसग रुप्प सुवण्णे य वइरे य॥१॥ हरियाले हिंगुलए मणोसिला सासगंजणपवाले। अब्भपडलब्भवालुय बायरकाए मणिविहाणा॥२॥गोमेजए यरुयए अंके फलिहे य लोहियक्खे य / मरगयमसारगल्ले भुयमोयग इंदणीले य॥३॥ चंदण गेरुय हंसगब्भ पुलए सोगंधिए य बोद्धव्वे / चंदप्पभवेरुलिए जलकंते सूरकंते य // 4 // एयाओ एएसु भाणियव्वाओ गाहाओ जाव सूरकंतत्ताए विउटुंति, ते जीवा तेसिंणाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरंजाव संतं, अवरेऽवियणंतेसिंतसथावरजोणियाणं पुढवीणंजाव सूरकंताणं सरीराणाणावण्णा जावमक्खायं, सेसा तिण्णि आलावगा जहा उदगाणं॥सूत्रम् 61 // ( // 696 // ) अथापरमेतत्पूर्वमाख्यातं इहैके सत्त्वाः पूर्वं नानाविधयोनिकाः स्वकृतकर्मवशा नानाविधत्रसस्थावराणां शरीरेषु सचित्तेषु अचित्तेषु / वा पृथिवीत्वेनोत्पद्यन्ते, तद्यथा- सपेशिरःसु मणयः करिदन्तेषु मौक्तिकानि विकलेन्द्रियेष्वपि शुक्त्यादिषु मौक्तिकानि स्थावरेष्वपि वेण्वादिषु तान्येवेति, एवमचित्तेषूषरादिषु लवणभावेनोत्पद्यन्ते, तदेवं पृथिवीकायिका नानाविधासु पृथिवीषु // 659 // शर्करावालुकोपलशिलालवणादिभावेन तथा गोमेदकादिरत्नभावेन च बादरमणिविधानतया समुत्पद्यन्ते, शेषं सुगम यावच्चत्वारोऽ-2 (r) त्रयोत्पत्तियुक्ताः।