SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 658 // श्रुतस्कन्धः 2 तृतीयमध्ययन आहारपरिज्ञा, सूत्रम६० (695) तजस्कायः पूतरकादित्वेन विवर्तन्ते समुत्पद्यन्ते, ते चोत्पद्यमानाः समुत्पन्नाश्च तेषामुदकयोनिकानामुदकानां स्नेहमाहारयन्ति, शेषं सुगम यावदाख्यातमिति // 59 // 694 ॥साम्प्रतं तेजःकायमुद्दिश्याह अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मनियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसुसचित्तेसु वा अचित्तेसुवा अगणिकायत्ताए विउटुंति, ते जीवा तेसिंणाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरंजाव संतं, अवरेऽवि यणंतेसिं तसथावरजोणियाणं अगणीणं सरीराणाणावण्णा जावमक्खायं, सेसा तिन्नि आलावगा जहा उदगाणं // अहावरं पुरक्खायं इहेगतिया सत्ताणाणाविहजोणियाणंजाव कम्मनियाणेणंतत्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसुसचित्तेसुवा अचित्तेसुवा वाउक्वायत्ताए विउटुंति, जहा अगणीणं तहा भाणियव्वा, चत्तारि गमा ।सूत्रम् 60 // 695 // अथैतदपरमाख्यातं इह अस्मिन् संसारे एके केचन सत्त्वाः प्राणिनस्तथाविधकर्मोदयवर्त्तिनो नानाविधयोनयः प्राक् सन्तः पूर्वजन्मनि तथाविधं कर्मोपादाय तत्कर्मनिदानेन नानाविधानां त्रसस्थावराणां प्राणिनां शरीरेषु सचित्तेष्वचित्तेषु चाग्नित्वेन विवर्तन्ते प्रादुर्भवन्ति, तथाहि- पञ्चेन्द्रियतिरश्चां दन्तिमहिषादीनां परस्परं युद्धावसरे विषाणसंघर्ष सति अग्निरुत्तिष्ठते, एवमचित्तेष्वपि तदस्थिसंघर्षादग्नैरुत्थानम्, तथा द्वीन्द्रियादिशरीरेष्वपि यथासंभवमायोजनीयम्, तथा स्थावरेष्वपि वनस्पत्युपलादिषु सचित्ताचित्तेष्वग्निजीवाः समुत्पद्यन्ते, ते चाग्निजीवास्तत्रोत्पन्नास्तेषां नानाविधानां त्रसस्थावराणां स्नेहमाहारयन्ति, 0 दन्तशृडयोः परिग्रहापेक्षया सचित्तांशयुक्तत्वापेक्षया वा अचित्तभेदभिन्नता। // 658 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy