________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् / श्रुतस्कन्धः२ / / 657 // एवं तिर्यगतेषु वातेषु तिरंभागी भवत्यप्कायः, इदमुक्तं भवति-वातयोनिकत्वादप्कायस्य यत्र यत्रासौतथाविधपरिणामपरिणतो श्रुतस्कन्धः२ भवति तत्र तत्र तत्कार्यभूतं जलमपि संमूर्च्छते, तस्य चाभिधानपूर्वकं भेदंदर्शयितुमाह- तद्यथा-ओस त्ति अवश्यायः हिमये / तृतीयमध्ययनं आहारपरिज्ञा, त्ति शिशिरादौ वातेरिता हिमकणा महिकाः- धूमिकाः करका:- प्रतीताः हरतणुय त्ति तृणाग्रव्यवस्थिता जलबिन्दवःशुद्धोदकं सूत्रम् 59 प्रतीतमिति / इह अस्मिन्नुदकप्रस्तावे एके सत्त्वास्तत्रोत्पद्यन्ते स्वकर्मवशगास्तत्रोत्पन्नास्ते जीवास्तेषां नानाविधानां त्रसस्था- (694) अप्कायोत्पत्तिः वराणां स्वोत्पत्त्याधारभूतानांस्नेहमाहारयन्ति, ते जीवास्तच्छरीरमाहारयन्ति, अनाहारकान भवन्तीत्यर्थः,शेषं सुगमंयावदेतदा-8 ख्यातमिति // तदेवं वातयोनिकमप्कायं प्रदाधुनाप्कायसंभवमेवाप्कायं दर्शयितुमाह- अथापरमाख्यातं इह अस्मिन् / जगति उदकाधिकारे वा एके सत्त्वास्तथाविधकर्मोदयाद्वातवशोत्पन्नत्रसस्थावरशरीराधारमुदकं योनिः- उत्पत्तिस्थानं येषां ते तथा, तथोदकसंभवा यावत्कर्मनिदानेन तत्रोत्पित्सवस्त्रसस्थावरयोनिकेषूदकेष्वपरोदकतया विवर्तन्ते समुत्पद्यन्ते, ते चोदकजीवास्तेषां त्रसस्थावरयोनिकानामुदकानां स्नेहमाहारयन्ति अन्यान्यपि पृथिव्यादिशरीराण्याहारयन्ति, तच्च पृथिव्यादिशरीरमाहारितं सत् सारूप्यमानीयात्मसात्कुर्वन्त्यपराण्यपि तत्र त्रसस्थावरशरीराणि विवर्तन्ते, तेषां चोदकयोनिकानामुदकानां नानाविधानिक शरीराणि विवर्तन्ते इत्येतदाख्यातम् / तदेवं त्रसस्थावरशरीरसंभवमुदकं योनित्वेन प्रदाधुना निर्विशेषणमप्कायसंभवमेवाकायं दर्शयितुमाह-अथापरमेतदाख्यातं इह अस्मिन् जगत्युदकाधिकारे वा एके सत्त्वाः स्वकृतकर्मोदयादुदकयोनिषूदकेषूत्पद्यन्ते, तेच तेषामुदकसंभवानामुदकजीवानामात्माधारभूतानांशरीरमाहारयन्ति,शेषं सुगमंयावदाख्यातमिति ॥साम्प्रतमुदकाधारान् // 657 // परान् पूतरकादिकांस्त्रसान् दर्शयितुमाह- अथापरमेतदाख्यातमिहैके सत्त्वा उदकेषु उदकयोनिषु चोदकेषु त्रसप्राणितया (r) सात्प्रकुर्व० (मु०)।