________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 644 / / श्रुतस्कन्धः 2 तृतीयमध्ययनं आहारपरिज्ञा, सूत्रम् 43-55 (678-690) बीजकाय चतुष्टयादिः स्वकायत्वेन विपरिणामयति, विपरिणामितं च तच्छरीरं स्वकायेन सह स्वरूपतां नीतं सत्तन्मयतां प्रतिपद्यते, अपराण्यपि शरीराणि मूलशाखाप्रतिशाखापत्रपुष्पफलादीनि तेषां पृथिवीयोनिकानांवृक्षाणां नानावर्णानि, तथाहि-स्कन्धस्यान्यथाभूतो वर्णो मूलस्य चान्यादृश इति, एवं यावन्नानाविधशरीरपुद्गलविकुर्वितास्ते भवन्तीति, तथाहि- नानारसवीर्यविपाका नानाविधपुद्गलोपचयात्सुरूपकुरूपसंस्थानाः, तथा दृढाल्पसंहननाः कृशस्थूलस्कन्धाश्च भवन्तीत्येवमादिकानि नानाविधस्वरूपाणि शरीराणि विकुर्वन्तीति स्थितम् / केषांचिच्छाक्यादीनांवनस्पत्याद्याः स्थावरा जीवा एव न भवन्तीत्यतस्तत्प्रतिषेधार्थमाह-ते जीवा इत्यादि, ते वनस्पतिषूत्पन्ना जीवा नाजीवाः, उपयोगलक्षणत्वानीवानाम्, तथाहि-तेषामप्याश्रयोसर्पणादिकया क्रिययोपयोगो लक्ष्यते, तथा विशिष्टाहारोपचयापचयाभ्यां शरीरोपचयापचयसद्धावादर्भकवत् जीवाः / स्थावराः तथा छिन्नप्ररोहणात्स्वापात्सर्वत्वगपहरणे मरणादित्येवमादयो हेतवोऽत्र द्रष्टव्याः, यदत्र कैश्चित्स्पष्टेऽपि वनस्पतीनां चैतन्येऽसिद्धानैकान्तिकत्वादिकमुक्तं स्वदर्शनानुरागात् तदपकर्णनीयम्, नहि सम्यगार्हतमताभिज्ञोऽसिद्धविरुद्धानैकान्तिकोपन्यासेन व्यामोह्यते, सर्वस्य कथञ्चिदभ्युपगतत्वात्प्रतिषिद्धत्वाच्चेति / तेचजीवास्तत्र वनस्पतिषु तथाविधेन कर्मणा उपपन्नगाः, तच्चेदं- एकेन्द्रियजातिस्थावरनामवनस्पतियोग्यायुष्कादिकमिति, तत्कर्मोदयेन तत्रोत्पन्ना इत्युच्यन्तेन पुनः कालेश्वरादिना तत्रोत्पाद्यन्तेइत्येवमाख्यातंतीर्थकरादिभिरिति।एवंतावत्पृथिवीयोनिका वृक्षा अभिहिताः॥४३॥६७८॥साम्प्रतंतद्योनिकेष्वेव वनस्पतिषु अपरे समुत्पद्यन्त इत्येतदर्शयितुमाह-सुधर्मस्वामी शिष्योद्देशेनेदमाह- अथापरमेतदाख्यातं पुरातीर्थकरेण यदिवा तस्यैव वनस्पतेः पुनरपरंवक्ष्यमाणमाख्यातम्, तद्यथा- इह अस्मिन् जगत्येके केचन तथाविधकर्मोदयवर्तिनः सत्त्वाः प्राणिनो वृक्षा एव योनिः- उत्पत्तिस्थानमाश्रयो येषांते वृक्षयोनिकाः, इह च यत्पृथिवीयोनिकेषुवृक्षेष्वभिहितं तदेतेष्वपिवृक्षयोनिकेषु // 644 //