________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 645 // बीजकाय वनस्पतिषु तदुपचयकर्तृसर्वमायोज्यं यावदाख्यातमिति॥४४॥६७९॥साम्प्रतं वनस्पत्यवयवानधिकृत्याऽऽह-अथापरमेतदा- श्रुतस्कन्धः२ ख्यातं (यदाख्यातं) तद्दर्शयति- इह अस्मिन् जगत्येके न सर्वे तथाविधकर्मोदयवर्तिनो वृक्षयोनिकाः सत्त्वा भवन्ति तदवयवा तृतीयमध्ययन आहारपरिज्ञा, श्रिताश्चापरे वनस्पतिरूपा एव प्राणिनो भवन्ति, तथा यो ह्येको वनस्पतिजीवः सर्ववृक्षावयवव्यापी भवति, तस्य चापरे कामवात, तस्य चापर सूत्रम् 43-55 दवयवेषु मूलकन्दस्कन्धत्वक्शाखाप्रवालपत्रपुष्पफलबीजभूतेषु दशषुस्थानेषु जीवाः समुत्पद्यन्ते, तेच तत्रोत्पद्यमाना वृक्षयोनिका (678-690) वृक्षोद्भवा वृक्षव्युत्क्रमाश्चोच्यन्ते इति,शेषं पूर्ववत्, इह च प्राक्चतुर्विधार्थप्रतिपादकानि सूत्राण्यभिहितानि, तद्यथा-वनस्पतयः चतुष्टयादिः पृथिव्याश्रिता भवन्तीत्येकं 1, तच्छरीरं अप्कायादिशरीरं वाऽऽहारयन्तीति द्वितीयं 2, तथा विवृद्धास्तदाहारितं शरीरमचित्तं विध्वस्तं च कृत्वाऽऽत्मसात्कुर्वन्तीति तृतीयं 3, अन्यान्यपि तेषां पृथिवीयोनिकानांवनस्पतीनांशरीराणि मूलकन्दस्कन्धादीनि नानावर्णानि भवन्तीति चतुर्थं 4, एवमत्रापि वनस्पतियोनिकानांवनस्पतीनामेवंविधार्थप्रतिपादकानिचतुःप्रकाराणि सूत्राणि द्रष्टव्यानीति यावत्ते जीवा वनस्पत्यवयवमूलकन्दस्कन्धादिरूपाः कर्मोपपन्नगा भवन्त्येवमाख्यातम्॥४५॥६८०॥साम्प्रतं वृक्षोपर्युत्पन्नान् वृक्षानाश्रित्याह- अथापरमेतत्पुराऽऽख्यातं यद्वक्ष्यमाणमिहैके सत्त्वा वृक्षयोनिका भवन्ति, तत्र येते पृथिवीयोनिका वृक्षास्तेष्वेव प्रतिप्रदेशतया येऽपरेसमुत्पद्यन्ते तस्यैकस्य वनस्पतेर्मूलारम्भकस्योपचयकारिणस्ते वृक्षयोनिका इत्यभिधीयन्ते, यदिवा येते मूलकन्दस्कन्धशाखाप्रशाखादिकाः पूर्वोक्तदशस्थानवर्तिनस्त एवमभिधीयन्ते, तेच वृक्षयोनिकेषु वृक्षेषुकर्मोपादाननिष्पादितेषु उपर्युपरि अध्यारोहन्तीत्यध्यारुहाः- वृक्षोपरिजाता वृक्षा इत्यभिधीयन्ते, तेच वल्लीवृक्षाभिधानाः कामवृक्षाभिधाना वा द्रष्टव्याः, तद्भावे चापरे वनस्पतिकायाः समुत्पद्यन्ते वृक्षयोनिकेषु वनस्पतिष्विति, इहापि प्राग्वञ्चत्वारि सूत्राणि O०ताश्च परे (मु०)। 0 तथाहि (प्र०)। // 645 //