________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 635 // निवर्ततेऽतो न मोहविपाकस्वभावा क्षुदिति / तदेवं व्यवस्थिते यत्कैश्चिदाग्रहगृहीतैरभिधीयते, यथा-अपवर्त्यतेऽकृतार्थं / श्रुतस्कन्धः२ नायुर्ज्ञानादयो न हीयन्ते। जगदुपकृतावनन्तं वीर्यं किंगततृषो भुक्तिः?॥१॥तदेतत् प्लवते, यतश्छद्मस्थावस्थायामप्येतदस्तीति तृतीयमध्ययन आहारपरिज्ञा, तत्रापि किमिति भुङ्क्ते?, तत्र समस्तवीर्यान्तरायक्षयाभावान्भुक्तिसद्भाव इति चेत्, तदयुक्तम्, यतः किं तत्रायुषोऽपवर्तनं नियुक्तिः स्यात् किं वा चतुर्णां ज्ञानानां काचिद्धानिः स्याद्येन भुक्तिरिति, तस्माद्यथा दीर्घकालस्थितेरायुष्कं कारणमेवमाहारोऽपि। 169-178 आहारादियथा सिद्धिगते[परतक्रियस्य ध्यानस्य चरमक्षण: कारणमेवं सम्यक्त्वादिकमपीति / अनन्तवीर्यतापि तस्याहारग्रहणे सति निक्षेपाः न विरुध्यते, यथा तस्य देवच्छन्दादीनि विश्रामकारणानि गमननिषीदनानि च भवन्त्येवमाहारक्रियापि, विरोधाभावात्, नह्यत्र बलवत्तरवीर्यवतोऽल्पीयसी क्षुदिति, एवं च स्थिते यत्किञ्चिदेतत् / अपि च- एकादश परीषहा वेदनीयकृता जिने प्रादुष्ष्यन्ति, अपरे तु एकादश ज्ञानावरणीयादिकृतास्तत्क्षयेऽपगता इतीयमप्युपपत्तिः केवलिनि भुक्तिं साधयति तथाहिक्षुत्पिपासाशीतोष्णदंशमशकनाग्नारतिस्त्रीचर्यानिषद्याशय्याऽऽक्रोशवधयाधालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानदर्शनानीत्येते द्वाविंशतिर्मुमुक्षुणा परिसोढव्याः परिषहाः, तेषां च मध्ये ज्ञानावरणीयोत्थौ प्रज्ञाज्ञानाख्यौ, दर्शनमोहनीयसंभवो दर्शनपरिषहः, अन्तरायोत्थोऽलाभपरिषहः, चारित्रमोहनीयसंभूतास्त्वमी- नाग्न्यारतिस्त्रीनिषद्याAssक्रोशयाञ्चासत्कारपुरस्काराः, एते चैकादशापि जिने केवलिनि न संभवन्ति, तत्कारणानां कर्मणामपगतत्वात्, न हि कारणाभावे क्वचित्कार्योपपत्तिः, शेषास्त्वेकादश जिने संभवन्ति, तत्कारणस्य वेदनीयस्य विद्यमानत्वात्, ते चामी %8 // 635 // क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलाख्याः, एते च वेदनीयप्रभवाः, तच्च केवलिनि विद्यते, न च 0 मोहरहितस्य, आकाङ्क्षाया मोहरूपत्वात्। 0 विद्यन्ते (मु०)।