________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 माहारकः कावलिकेन तु कादाचित्क इति / ननु केवलिनो घातिकर्मक्षयेऽनन्तवीर्यत्वान्न भवत्येव कावलिक आहारः, श्रुतस्कन्धः 2 तथाहि-आहारादाने यानि वेदनादीनि षट् कारणान्यभिहितानि तेषां मध्ये एकमपि न विद्यते केवलिनि तत्कथमसावाहार | तृतीयमध्ययन आहारपरिज्ञा, बहुदोषदुष्टं गृह्णीयात्?, तत्र न तावत्तस्य वेदनोत्पद्यते, तदनीयस्य दग्धरज्जुस्थानिकत्वात्, सत्यामपिन तस्य तत्कृता पीडा, नियुक्तिः अनन्तवीर्यत्वात्, वैयावृत्यकारणं तु भगवति सुरासुरनराधिपतिपूज्ये न संभाव्यत एवेति, ईर्यापथः पुनः केवलज्ञानावरण- 169-178 आहारादिपरिक्षयात्सम्यगवलोकयत्येवासी, संयमस्तु तस्य यथाख्यातचारित्रिणो निष्ठितत्वादनन्तवीर्यत्वान्नाहारग्रहणायकारणीभवति, निक्षेपाः प्राणवृत्तिस्तु तस्यानपवर्तित्वात् आयुषोऽनन्तवीर्यत्वाच्चान्यथा सिद्धैव, धर्मचिन्तावसरस्त्वपगतो निष्ठितार्थत्वात्, तदेवं केवलिनः कावलिकाहारो बह्वपायत्वान्न कथञ्चिद् घटत इति स्थितम्, अत्रोच्यते, तत्र यत्तावदुक्तं घातिकर्मक्षये केवल-2 ज्ञानोत्पत्तावनन्तवीर्यत्वान्न केवलिनो भुक्ति रिति, तदागमानभिज्ञस्य तत्त्वविचाररहितस्य युक्तिहृदयमजानतो वचनम्, तथाहियदाहारनिमित्तं वेदनीयं कर्म तत्तस्य तथैवाऽऽस्ते, किमिति सा शारीरी स्थितिः, प्राक्तनी न भवति?, प्रमाणं च- अस्ति केवलिनो भुक्तिः, समग्रसामग्रीकत्वात्पूर्वभुक्तिवत्, सामग्री चेयं प्रक्षेपाहारस्य, तद्यथा- पर्याप्तत्वं 1 वेदनीयोदयः 2 आहारपक्तिनिमित्तं तैजसशरीरं 3 दीर्घायुष्कत्वं 4 चेति, तानि च समस्तान्यपि केवलिनि सन्ति, यदपि दग्धरज्जुसंस्थानिकत्वमुच्यते वेदनीयस्य तदप्यनागमिकमयुक्तिसंगतंच, आगमे ह्यत्यन्तोदयः सातस्य केवलिन्यभिधीयते, युक्तिरपि-यदि घातिकर्मक्षयाज्ज्ञानादयस्तस्याभूवन् वेदनीयोद्भवायाः क्षुधः किमायातं? येनासौन भवति, नतयोश्छायातपयोरिव सहानवस्थान // 633 // लक्षणो नापि भावाभावयोरिव परस्परपरिहारलक्षणः कश्चिद्विरोधोऽस्तीति, सातासातयोश्चान्तर्मुहूर्तपरिवर्तमानतया यथा निष्ठितार्थत्वान्नाहार० (मु०)10 सति कारणताज्ञापनाय।।