________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 632 // श्रुतस्कन्धः। तृतीयमध्ययन आहारपरिज्ञा, नियुक्तिः 169-178 आहारादिनिक्षेपाः मध्यमसमयेऽनाहारक इति इतरयोस्त्वाहारक इति, वक्रत्रये तु चतुःसमयोत्पत्तिके मध्यवर्तिनोः समययोरनाहारकः, चतुःसमयोत्पत्तिश्चैवं भवति-सनाड्या बहिरुपरिष्टादधोऽधस्ताद्वोपर्युत्पद्यमानो दिशो विदिशि विदिशोवा दिशियदोत्पद्यते तदालभ्यते, तत्रैकेन समयेन त्रसनाडिप्रवेशो द्वितीयेनोपर्यधो वागमनम्, तृतीयेन च बहिनिःसरणम्, चतुर्थेन तु विदिश्रुत्पत्तिदेशे प्राप्तिरिति / पञ्चसमया तुत्रसनाड्या बहिरेव विदिशो विदिश्युत्पत्तौ लभ्यते तत्र च मध्यवर्तिषु (त्रिषु)अनाहारक इत्यवगन्तव्यम्, आद्यन्तसमययोस्त्वाहारकइति // 174 ॥केवलिसमुद्धातेऽपिकार्मणशरीरवर्तित्वात् तृतीयचतुःपञ्चमसमयेष्वनाहारको द्रष्टव्यः / शेषेषु तु औदारिकतन्मिश्रशरीरवर्तित्वादाहारक इति // 175 // मुहुत्तमद्धं च त्ति अन्तर्मुहूर्तं गृह्यते, तच्च केवली स्वायुषः क्षये सर्वयोगनिरोधे सति ह्रस्वपञ्चाक्षरोद्रिणमात्रकालं यावदनाहारक इत्येवमवगन्तव्यम् / सिद्धजीवास्तु शैलेश्यवस्थाया आदिसमयादारभ्यानन्तमपिकालमनाहारका इति ॥साम्प्रतमेतदेव स्वामिविशेषविशेषिततरमाह-केवलिपरिवर्जिताः संसारस्था जीवा एकं द्वौ वा अनाहारका भवन्ति। ते च द्विविग्रहत्रिविग्रहोत्पत्तौ त्रिचतुःसामयिकायां द्रष्टव्याः, चतुर्विग्रहपञ्चसमयोत्पत्तिस्तु स्वल्पसत्त्वाश्रितेति न साक्षादुपात्ता, तथा चान्यत्राप्यभिहितं- एकं द्वौ वाऽनाहारकः (तत्त्वा० अ० 2 सू०३१), वाशब्दात् त्रीन्वा, आनुपूर्व्या अप्युदय उत्कृष्टतो विग्रहगतौ चतुरः समयानागमेऽभिहितः, तेच पञ्चसमयोत्पत्ती लभ्यन्ते नान्यत्रेति / भवस्थकेवलिनस्तु समुद्धाते मन्थे तत्करणोपसंहारावसरे तृतीयपञ्चमसमयौ द्वौ लोकपूरणाच्चतुर्थसमयेन सहितास्त्रयः समया भवन्तीति / / 175 // पुनरपि नियुक्तिकारः सादिकमपर्यवसानं कालमनाहारकत्वं दर्शयितुमाह- शैलेश्यवस्थाया आरभ्य सर्वदाऽनाहारकः सिद्धावस्थाप्राप्तावनन्तमपि कालं यावदिति, पूर्वं तु कावलिकव्यतिरेकेण प्रतिसमय 0 विदिक्षुत्पत्तौ (मु०)। 0 ततोऽर्वाक् , सामीप्ये च सप्तमी।® अन्तराणि संहृत्य मन्थीभवनसमयः। // 632 //