________________ | श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / / 631 // लोमाहार एवेति, प्रक्षेपाहारे तुभजनीयाः, यदैव प्रक्षेपं कुर्वन्ति तदैव प्रक्षेपाहारा नान्यदा, लोमाहारता तु वाय्वादिस्पर्शात्सर्व- श्रुतस्कन्धः२ दैवेति, सच लोमाहारश्चक्षुष्मतां- अर्वाग्दर्शिनांन दृष्टिपथमवतरति, अतोऽसौ प्रतिसमयवर्ती प्रायशः, प्रक्षेपाहारस्तूपलभ्यते तृतीयमध्ययनं आहारपरिज्ञा, प्रायः, स च नियतकालीयः, तद्यथा- देवकुरूत्तरकुरु(दि) प्रभवा अष्टमभक्ता(द्या)हाराः, संख्येयवर्षायुषामनियत- नियुक्तिः कालीयः प्रक्षेपाहार इति ॥१७२॥साम्प्रतंप्रक्षेपाहारस्वामिविभागेन दर्शयितुमाह-एकमेव स्पर्शेन्द्रियं येषां ते भवन्त्येकेन्द्रियाः- |169-178 आहारादिपृथिवीकायादयस्तेषां देवनारकाणां च नास्ति प्रक्षेपः, ते हि पर्याप्त्युत्तरकालं स्पर्शेन्द्रियेणैवाहारयन्तीतिकृत्वा लोमाहाराः,THANE तत्र देवानां मनसा परिकल्पिताः शुभाः पुद्गलाः सर्वेणैव कायेन परिणमन्ति नारकाणां त्वशुभा इति, शेषास्त्वौदारिकशरीरा द्वीन्द्रियादयस्तिर्यमनुष्याश्च तेषां प्रक्षेपाहार इति, तेषां संसारस्थितानां कायस्थितेरेवाभावात्प्रक्षेपमन्तरेण, कावलिक आहारो जिह्वेन्द्रियस्य सद्भावादिति, अन्ये त्वाचार्या अन्यथा व्याचक्षते-तत्र यो जिह्वेन्द्रियेण स्थूलः शरीरे प्रक्षिप्यते स प्रक्षेपाहारः, यस्तु घ्राणदर्शनश्रवणैरुपलभ्यते धातुभावेन परिणमति स ओजाहारः, यः पुनः स्पर्शेन्द्रियेणैवोपलभ्यते धातुभावेन(च) प्रयाति सलोमाहार इति ॥१७३॥साम्प्रतं कालविशेषमधिकृत्याऽनाहारकानभिधित्सुराह-तत्र 'विग्गहगइमावन्ना केवलिणो समुहया अयोगी य। सिद्धा य अणाहारा सेसा आहारगा जीवा // 1 // ' अस्या लेशतोऽयमर्थः- उत्पत्तिकाले विग्रहगतौ / वक्रगतावापन्नाः केवलिनो लोकपूरणकाले समुद्धातावस्थिता अयोगिनः- शैलेश्यवस्थाः सिद्धाश्चानाहारकाः, शेषास्तु जीवा आहारका इत्यवगन्तव्यम्, तत्र भवाद्भवान्तरं यदा समश्रेण्या याति तदाऽनाहारको न लभ्यते, यदापि विश्रेण्यामेकेन वक्रेणोत्पद्यते तदापि प्रथमसमये पूर्वशरीरस्थेनाहारितं द्वितीये त्ववक्रसमये समाश्रितशरीरस्थेनेति, वक्रद्वये तु त्रिसमयोत्पत्तौ 7 अर्वाग्दृष्टिमतां (मु०)। 7 वायुस्पर्शाल्लोमाहारस्य सार्वदिक्त्वात्, विग्रहादौ व्यभिचारवारणाय प्रायश इति। (c) उपलक्षणात्पूर्णतासंहरणयोः। // 63