SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध: 2 // 630 // कार्मणेनाभ्यां द्वाभ्यामप्याहारयति यावदपरमौदारिकादिकं शरीरं न निष्पद्यते, तथा चोक्तं- तेएण कम्मएणं आहारेइ अणंतरं / श्रुतस्कन्धः२ जीवो। तेण परं मिस्सेणं जाव सरीरस्स निप्फत्ती॥१॥ तथा- ओआहारा जीवा सव्वे आहारगा अपज्जत्ता। लोमाहारस्तु तृतीयमध्ययनं आहारपरिज्ञा, शरीरपर्याप्त्युत्तरकालं बाह्यया त्वचा, लोमभिराहारोलोमाहारः, तथा प्रक्षेपेण कवलादेराहारः प्रक्षेपाहारः, सच वेदनीयोदयेन नियुक्तिः चतुर्भिः स्थानैराहारसंज्ञासद्भावाद्भवति, तथा चोक्तं-चउहिं ठाणेहिं आहारसण्णा समुप्पज्जइ, तंजहा-ओमकोट्ठयाए 1 छुहावेयणिज्जस्स 169-178 आहारादिकम्मस्स उदएणं 2 मईए 3 तयट्ठोवओगेणं ति। साम्प्रतमेतेषां त्रयाणामप्येकयैव गाथया व्याख्यानं कर्तुमाह- तैजसेन कार्मणेन निक्षेपाः चशरीरेणौदारिकादिशरीरनिष्पत्तेर्मिश्रेण च य आहारः स सर्वोऽप्योजाहार इति, केचिद्व्याचक्षते- औदारिकादिशरीरपर्याप्त्या पर्याप्तकोऽपीन्द्रियानापानभाषामनःपर्याप्तिभिरपर्याप्तकः शरीरेणाहारयन् ओजाहार इति गृह्यते, तदुत्तरकालं तु त्वचास्पर्शेन्द्रियेण य आहारः सलोमाहार इति, प्रक्षेपाहारस्तु कावलिकः कवलप्रक्षेपनिष्पादित इति ज्ञातव्यो भवति / पुनरप्येषामेव स्वामिविशेषेण विशेषमाविर्भावयन्नाह- यः प्रागुक्तः शरीरेणौजसाऽऽहारस्तेनाहारेणाहारका जीवाः सर्वेऽप्यपर्याप्तका ज्ञातव्याः, सर्वाभिः पर्याप्तिभिरपर्याप्तास्ते वेदितव्याः, तत्र प्रथमोत्पत्तौ जीवः पूर्वशरीरपरित्यागे विग्रहेणाविग्रहेण वोत्पत्तिदेशे तैजसेन कार्मणेन च शरीरेण तप्तस्नेहपतितसंपानकवत्तत्प्रदेशस्थानात् (स्थान्) पुद्गलानादत्ते, तदुत्तरकालमपि यावदपर्याप्तकावस्था / तावदोजआहार इति, पर्याप्तकास्त्विन्द्रियादिभिः पर्याप्तिभिः पर्याप्ताः केषांचिन्मतेन शरीरपर्याप्तका वा गृह्यन्ते, तदेवं ते लोमाहारा भवन्ति, तत्र स्पर्शेन्द्रियेणोष्मादिना तप्तश्छायया शीतवायुनोदकेन वा प्रीयते प्राणी गर्भस्थोऽपि, पर्याप्त्युत्तरकालं // 630 // Oतैजसेन कार्मणेन चाहारयत्यनन्तरं जीवस्ततः परं मिश्रेण यावच्छरीरस्य निष्पत्तिः॥ 1 // ७ओजआहारा जीवाः सर्वे आहारका अपर्याप्ताः॥१॥ 0 चतुर्भिः स्थानैराहारसंज्ञा समुत्पद्यते तद्यथा-वामकोष्ठतया क्षुधावेदनीयस्य कर्मण उदयेन मत्या तदर्थोपयोगेन / / 1 / /
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy