________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 627 // तथाऽऽत्मानं सम्यग्दर्शनादिकेनानुष्ठानेन संसारचारकान्निःसारयतीति, तथाऽऽत्मानमनर्थभूतेभ्यो द्वादशभ्यः क्रियास्थानेभ्यः प्रतिसंहरेत, यदिवोपदेशः- आत्मानं सर्वापायेभ्यः प्रतिसंह्रियात्-सर्वानर्थेभ्यो निवर्तयेदित्येतस्मिन्महापुरुषे संभाव्यत इति॥ ४२॥६७७॥इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ।नयाः पूर्ववव्याख्येयाः।समाप्त क्रियास्थानाख्यं द्वितीयमध्ययनमिति॥ श्रुतस्कन्ध:२ द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 42 (677) आत्मार्थवादि गुणो भिक्षुः // श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां / श्रीसूत्रकृताङ्गवृत्तौ द्वितीयमध्ययनं क्रियास्थानाख्यं समाप्तमिति॥ // 627 //